सुभाषितम्‌

अम्भोजिनी वनविहारविलासमेव हंसस्य हन्ति नितरां कु पितो विधाता । न त्वस्य दुग्ध जलभेदविधौ प्रसिद्धां वैदग्घ्यक ीर्तिमपहर्तुमसौ समर्थः ।।

सुभाषितम्‌

विक्र ीतं निमात्मानं वस्त्रैः संस्कु रुते जडः । परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ।। निक टस्थं गरीयांसमपि लोक ाे न मन्यते । पवित्रमपि यन्मर्त्या न नमस्यन्ति जाह्रवीम्‌ ।।

सुभाषितम्‌

अम्भोजिनी वनविहारविलासमेव हंसस्य हन्ति नितरां कु पितो विधाता । न त्वस्य दुग्ध जलभेदविधौ प्रसिद्धां वैदग्घ्यक ीर्तिमपहर्तुमसौ समर्थः ।।

सुभाषितम्‌

मणिश्शाणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागश्शरदि सरिदाश्यानपुलिना । क लाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चर्थिषु नराः ।।

सुभाषितम्‌

जातिर्यातु रसातलं गुणगणस्तत्राप्यधो गच्छतात्‌ शीलं शैलतटात्पतत्वभिजनस्सन्दह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोस्तु न केवलं येनैकेन विना गुणास्तृणलवप्रायास्समस्ता इमे ।।

सुभाषितम्‌

कान्ताकटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः । कर्षन्ति भूरिविषयाश्च न लोभपाशा लोक त्रयं जयति कृत्स्नमिदं स धीरः ।।

सुभाषितम्‌

द्विजस्य सितपक्षस्य कवेरपि निरस्यते । न हंस इति साजात्यं गतिशब्दित वृसत्तििभिः । अव्यवस्थितवृत्तानां अभिन्नश्रुतिचक्षुषाम्‌ । अधर्मार्जितभोगानां आशीरप्यहितोचिता ।।

सुभाषितम्‌

जातिर्यातु रसातलं गुणगणस्तत्राप्यधो गच्छतात शीलं शैलतटात्पतत्वभिजनस्सन्दह्यतां व•ना शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोस्तु न केवलं येनैके न विना गुणास्तृणलवप्रायास्समस्ता इमे ।

सुभाषितम्‌

कलासीमा काव्यं सकलगुणसीमा वितरणं भये सीमा मृत्युः सक लसुखसीमा सुवदना । तपः सीमा मुक्तिः सकलकृतिसीमाश्रितभृतिः प्रिये सीमा‡ादः श्रवणसुखसीमा हरिकथा ।।

सुभाषितम्‌

न गतास्त एव लघुतां जगत्त्रये सुखिनस्त एव सुधियस्त एव च। बहदोषसर्पनिचितानि संश्रिता न विलासिनव्विषलतानानि ये ।। ते एव लोक त्रये लघुताम्‌ अनापन्नाः, सुखिनः बुद्धिशालिनश्च ये नैकादोषरूपसर्पयुतानि स्त्रीरूपविषलतावनानि न प्रविष्टाः ।
  • सुभाषितम्‌

    सुभाषितम्‌

    सन्त्येव सज्जानाः सन्त्येव पण्डिताः सन्त्येव देवालया योगिनश्च । दौर्जन्यमज्ञानमपि नास्तिक त्वं च कस्मान्नु वर्धते नागराज ।।...

    January 23rd, 2013 | Read more
  • विविध

    मदनव•र्देशं ज्वालयति

    भारतवर्षे दिने दिने स्त्रीणां विषये प्रवर्तानो दुष्टाचारः सर्वान्‌ द्वेपयति । वयं सभ्याः किम्‌ इति प्रश्न उत्तिष्ठते...

    January 23rd, 2013 | Read more