सुभाषितम्‌

जातिर्यातु रसातलं गुणगणस्तत्राप्यधो गच्छतात्‌ शीलं शैलतटात्पतत्वभिजनरसन्दह्यतां व•ना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोस्तु नः के वलं येनैके न विना गुणास्तृणलवप्रायास्समस्ता इमे ।।

सुभाषितम्‌

लागूंलचालनमधश्चरणावघातं । भूमौ निपत्य वदनोदरदर्शनं च ।। श्वा पिण्डदस्य कुरुते गजपुगंवस्तु । धीरं विलोक यति चाटुशतैश्च भुंक्ते ।।

सुभाषितम्‌

स्वल्पस्रायुवसावसेकमलिनं निर्मासमप्यस्थि गो ेशा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधा शान्तये। सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनस्सत्वानुरूपं फफलम्‌।।

सुभाषितम्‌

शक्यो वारयितुं जलेन हुतभुक्‌ छत्रेण सूर्यातपो नागेन्द्रो निशिताकुंशेन समदो दण्डेन गौर्गार्दभः । ध्याधिर्भेषजसंग्रहैश्च विविधैर्मन्त्रैः प्रयोगैर्विषं सर्वस्योषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्‌ ।।

सुभाषितम्‌

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः । तत्तेजस्वीपुरुषः परकृतनिकृतिं कथं सहते ।। न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तƒत्तानां प्रकाशते ।।

सुभाषितम्‌

जातिर्यातु रसातलं गुणगणस्तत्राप्यधो गच्छतात्‌ शीलं शैलतटात्पतत्वभिजनस्सन्दह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोस्तु नः केवलं येनैकेन विना गुणास्तृणलवप्रायास्समस्तः इमे ।।

सुभाषितम्‌

मण्श्शािणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागश्शरदि सरिदाश्यानपुलिना । कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ।।

सुभाषितम्‌

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वला । न स्नानं न विलेपनं न कु सुमं नालंकृ ता मूर्धजाः ।। वाण्येका समलंक रोति पुरुषं या संस्कृता र्धायते । क्षीयन्तेऽखिलभूषणानि सततं वाग्भूषणं भूषणम्‌ ।।

सुभाषितम्‌

कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ।।

१९०८२००८

चातकस्त्रिचतुरान्‌ पयः कणान्‌ याचते जलधरं पिपासया । सोऽपि पूरयति वेिशमम्भसा हन्त हन्त ! महतामुदारता ।।
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more