सुभाषितम्‌

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गो युर्गमनुग्रहः किल हरेररौवणो वारणः । इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः सन्गरे तद्युक्तं वरमेव दैवशरणं धिग्धिग्वृथा पौरुषम्‌ ।।

सुभाषितम्‌

कैवर्तकर्कशकरग्रहणच्युतोऽपि जालान्तरे निपतितः शफरो वराकः । दैवात्ततो विगलितो गिलितो बकेन वक्रे विधौ वद कथं व्यवसायसिद्धिः ।।

सुभाषितम्‌

वरं प्राणोच्छेदस्समदमघवन्मुक्त कुलिशः प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः । तुषाराद्रेसूनोः अहह पितरि क्लेशविवशे न चासौ संपातः पयसि पयसां पत्युरुचितः ।।

सुभाषितम्‌

वरं प्राणोच्छेदस्समदमघवन्मुक्तकुलिशः प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः । तुषाराद्रेसूनोः अहह पितरि क्लेशविवशे न चासौ संपातः पयसि पयसां पत्युरुचितः ।।

सुभाषितम्‌

भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः सुजनतामुपयाति तस्य । कृत्स्नां च भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ।।

सुभाषितम्‌

दद्यात्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावकाशोऽधमानां जारोऽपि स्याद्‌गृहपतिरिति श्रूयते वाक्यतोऽत्र ।।

सुभाषितम्‌

वार्ता च कौतुककरी विमला च विद्या लोकोत्तरः परिमलश्च कुरन्गनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवार मेतत्‌ त्रयं प्रसरसि स्वयमेव भूमौ ।।

सुभाषितम्‌

वार्ता च कौतुककरी विमला च विद्या लोकोत्तरः परिमलश्च कुरन्गनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवार मेतत्‌ त्रयं प्रसरसि स्वयमेव भूमौ ।।

सुभाषितम्‌

परीवादस्तथ्यो भवति वितथो वापि महता तथाप्युच्चैर्धाम्नो हरति महिमानं जनरवः । तुलोत्तीर्णास्यापि प्रकटितहताशेषतमसो रवेस्तादृक्त जो न हि भवति कन्यां गतवतः ।।

जातस्य हि ध्रुवो मृत्युः

यो जायते स म्रियते । पुमान्‌ वा स्त्री वा, दरिद्रो वा धनिको वा, आस्तिको वा नास्तिको वा, सुन्दरः कुरूपो वा, युवा वा वृद्धो वा, न कश्चिन्मृत्योः अगोचरः । सर्वान्‌ समानतया पश्यति मृत्युः । कुत्रापि तस्य पक्षपातो नास्ति । अत एव यमस्य समवर्ती इति नाम ।...
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more