सुभाषितम्
गुणवज्जनसंसर्गाद्याति स्वल्पोऽपि गौरवम् । पुष्पमालानुषन्गेण सूत्रं शिरसि धार्यते ।। सुत्सु कार्यवतां पुंसामलमेवाग्रतः स्थितिः । वाग्वृत्तिरधिका सा चेत्
सुभाषितम्
आत्मप्रशंसितं धृष्टं दुष्टं विपदि धावकम् ।
सर्वदोत्सिक्त चण्डं च लोकः सत्कुरुते नरम् ।।
नमन्ति फलिताः वृक्षाः नमन्ति च बुधा जनाः ।
शुष्काष्ठानि मूर्खाश्च
सुभाषितम्
पश्यन्ति नैव कवयो निजकाव्यदोषं
भक्षन्ति नो बलिभुजो निजजातिमांसम् ।
जल्पन्ति नैव मधुपा निजमर्मवाक्यं
कुर्वन्ति नो युवतयः पुरुषे बीजम् ।।
सुभाषितम्
निर्वृत्ताध्वरकृत्य ऋत्विजमहो तीर्णापगो नाविकं
युद्धान्ते सुभटं च सिद्धविजयो वोढारमाप्तस्थलः ।
वृद्धं वारवधूजन च कितवो निर्वृत्ततद्यौ वनो
ध्वस्तातन्कचयाश्चिकित्सकमपि द्वेष्टि प्रदेयार्थिनम् ।।
सुभाषितम्
प्रसरति मनः कार्यारम्भे दृढीभवति स्पृहा स्वयमुपनयन्नर्थान्मंत्रो न गच्छति विप्लवम् । फलति सकलं कृत्यं चित्तं समुन्नतिमश्नुते भवति च
सुभाषितम्
पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान्
रामेणापि कथं न हेमहरिणस्यासम्भवो लक्षितः ।
अक्षैश्चापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं
प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ।।
सुभाषितम्
माक न्दराजपरिरम्भणलालितापि
मल्लीवधूर्मधुपरागवती बभूव ।
दृष्टवापि तत्कु टिलतां जहाति चूतः
प्रायः कुजातिनिवहेषु कुतोऽभिमानः ।।
सुभाषितम्
नियुक्तो नृपतेः कार्यं न कु र्याद्य समाहितः ।
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ।।
आर्तो वा यदि वा दृप्तः परेषां शरणागतः ।
अपि
सुभाषितम्
हंसो न भाति बलिभोजनवृन्दमध्ये
गोमायुमण्डलगतो न विभाति सिंहः ।
जात्यो न भाति तुरगः खरयूथमध्ये
विद्वान्न भाति पुरुषेषु निरक्षरेषु ।
सुभाषितम्
हंसो विभाति नलिनीदल पञ्जमध्ये
सिंहो विभाति गिरिगह्वाकन्दरासु ।
जात्यो विभाति तुरगो रणयुद्धमध्ये
विद्वान् विभाति पुरुषेषु विचक्षणेषु ! ।।