आस्ट्रेलियादेशे भारतीयानां क्लेशः

मेल्‌बोर्न्‌ भारतीयानाम्‌ उपरि आक्रमणानि दिने दिने वर्धन्ते । शनिवासरे ९१२०१० एको भारतीयः चतुर्भिः दुष्ठैः पीडितः । असहायं तं दुरात्मानो दुष्टाः अग्निसात्‌ कर्तुं प्रायतन्त । जस्प्रीत्‌ सिन्गनामा अयं मनुष्यः स्वीयं कार्‌यानं स्थापयितुं क्व चिद्‌ गतः । यानाद्‌ बहिरागतं तं चत्वारो दुष्टाः प्रसभं गृहीत्वा, तस्योपरि किमपि तैलं...

शालासु गणकयन्त्राणि

नवदिल्ली राष्ट्रे सर्वासु शालासु गणकयन्त्राणि भवेयुः । सर्वे विद्यार्थिनः आधुनिकं तन्त्रज्ञानम्‌ उपयुज्य ज्ञानार्जने शक्ता भवेयुः । एतदर्थं केन्द्रसर्वकारो महतीं योजनां कृ तवान्‌ । मानवसम्पन्मूलाभिवृद्धिविभागः सर्वत्र आधुनिकं तन्त्रज्ञानं प्रसारयितुं कटिबद्धः । एतद्विषये प्रधानमन्त्रिनेतृका समितिः निर्णयं स्वीकृतवान्‌ ।

पाकिस्थानस्य धृष्टता

चण्डीगृहम्‌ (चण्डीघर) पाकि स्थानस्य सैनिकाः भारतीय भूमौ राकेट्‌क्षेपं कृतवन्तः । गत शुक्रवासरस्य रात्रौ षट्‌ राकेटः भारतभूमौ पतिताः । किन्तु ते नास्फुटन्‌ । अतो न कोऽपि व्रणितः । एतद्विषये भारतीयैः सैनिकैः असमाधानं व्यक्तीकृतम्‌ । एतद्‌ यद्यनुवर्तिष्यते, तर्हि अस्माभिः प्रतिक्रि या आरप्स्यते इति च पाकिस्थानीयेभ्यः सूचितम्‌ ।

संस्कृतसंशोधनसंसदि राज्यपालः

मेलुकोटे कर्णाटक राज्यपालो माननीयः श्री हंसराज भारद्वाजः अत्रत्यां संस्कृ तसंशोधन संसदं द्रष्टुं भानुवासरे समागतः । सपत्नीको राजज्यपालः संसदो ग्रन्थभाण्डागारं दृष्टवा सन्तोषं प्राक टयत्‌ । संसदो निर्देशके न श्री भाष्यस्वामिवर्येण राज्यपालः सम्मानितः । संस्कृतविश्वविद्या निलयस्य प्रतिष्ठापनां प्रति सर्वकारस्य अवधानं कर्षामि इति राज्यपालः आश्वासयत्‌ । संस्कृ त...

अट्टाटिप्रदेशे पाकिस्तानस्तैनिकैः राकेट्‌ आक्रमणम्‌

नवदिल्ली शुक्र वासरे अष्टम दिनान्के मध्यरात्रौ पाकि स्तनदेशस्य सैनिकाः चतुर्वारं राके ट्‌यन्त्रैः आक्रमणं चक्रुः भारतदेशोपरि । द्वे राकेट्‌यन्त्रे अमृतसरस्य अट्टाटि ग्रामस्य कृषिभूमौ पतित । परं अपरे द्वे यन्त्रे नैव स्फोटिते । अत्र ३५ भारतीयसैनिकाः कार्यनिरताः आसन्‌ । भारतीयसैनिकाः अपि पाकिस्तानसैनिकानाम्‌ उपरि प्रत्याक्रमणं चक्रुः ।

क्रिकेट्‌स्पर्धायां भारतस्य महान्‌ विजयः

नवदिल्ली गुरुवासरे सप्तमदिनान्के शेर्‌ईबांग्ला क्रीडान्गणे त्रिकोण एक दिवसात्मक क्रिकेट्‌ स्पर्धा श्रेण्यां बांग्लादेशेन साकं भारतदेशः क्रीडमानः षट्‌ दण्डात्मकं विजयमवाप । प्राक्‌ बांग्लादेशः स्वयमेव क्रीडितुं प्रवृत्तः । बांग्लादेशस्य क्रिकेट्‌ क्रीडलवः सम्यक्‌ क्रीडित्वा ५० ओवर्‌ क्रीडासु षट्‌ विके ट्‌ दत्वा २९६ धावनानि लेभिरे । ततः भारतदेशस्य क्रीडालवः सम्यक्‌...

केन्द्रसर्वकारस्य २०१०११ वर्षस्य आयव्ययपत्रम्‌

नवदिल्ली केन्द्रसर्वकारस्य २०१०११ तम वर्षस्य आयव्ययपत्रं फ्रेब्रवरिमासस्य २६ दिनान्के वाचयिष्यते इति केन्द्र सर्वकारस्य वित्तसचिवः श्री प्रणब्‌ मुखर्जी नवदेहल्यां पत्रिकाकारेभ्यः भोजनकूटं प्रदास्यन्‌ भाषमाणः अवोचत्‌ । केन्द्रसर्वकारस्य आयव्ययपत्रं सामान्यतः फेब्रवरिमासस्य २८ तम दिनान्के वाच्यते । परमस्मिन्‌ २०१० तमवर्षे फ्रे ब्रवरि २७ दिनान्के प्रवादि श्री मोम्मदस्य जन्मदिवसः ।...

कोलिशिक्षायाः सर्वोच्चन्यायालयस्य प्रतिबन्धः

नवदिल्ली नितारि श्रेणिहनन प्रक रणे मुख्यः आरोपी सुरिन्दर्‌ कोलि मरणदण्डनशिक्षामवाप । विशेष सिबिऐ न्यायालयः २००९ वर्षस्य फे ब्रवरि मासस्य १३ तम दिनान्के न्यायनिर्णयं दत्वा अपराधिने सुरिन्दराय मरणदण्डन शिक्षां प्रादात्‌ । ततः सुरिन्दर्‌ कोलि अलबाद्‌ उच्चन्यायालये परिशीलानाभियोगं चकार । परमुच्चन्यायालयः स्वपूर्वतन न्यायालयस्य निर्णयमेव पुरश्चकार । सुरिन्दर्‌...

अखिलभारतीय संस्कृत नवोदित प्रतियोगिता

नवदिल्ली दिल्ली संस्कृत अकादम्याः आश्रये नवोदित कवि प्रतियोगिता समारोहः महता वैभवेन प्राचलत्‌ । दिल्ली सर्वकारस्य पूर्वशिक्षामन्त्रिणः श्रीमन्तः कुलानन्द भारतीय महोदया अवोचत्‌ यत्‌ संस्कृत भाषायां साम्प्रतमपि विविधेषु लेखनं भवति । तत्र विभिन्नेष्ववसरेषु कविसम्मेलनानि समायोजितानि भवन्ति, अत एव नवोदितानां प्रोत्साहनाय दिल्ली संस्कृत अकादमी विविधाः प्रतियोगिताः समायोचयति ।...

तेलन्गाणा पृथक्करणे कोलाहलः

हैदराबाद्‌ तेलन्गाण प्रत्येक राज्यं घोषितुं ओसमेनिया विद्यार्थिनः तीव्रप्रतिभटनं प्रदर्शितवन्तः । अनेन कारणेन आन्ध्रप्रदेशे अनेकेषु प्रदेशेषु सञ्चार व्यवस्था सम्पूर्णतया स्थगिता । हैदराबाद्‌ तेलन्गाण प्रत्येक राज्यं घोषितुं ओसमेनिया विद्यार्थिनः तीव्रप्रतिभटनं प्रदर्शितवन्तः । अनेन कारणेन आन्ध्रप्रदेशे अनेकेषु प्रदेशेषु सञ्चार व्यवस्था सम्पूर्णतया स्थगिता ।
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more