यड्यूरप्पस्य गृहे गवेषणा

बेङ्गळूरुयुगपदेव भूतपूर्वमुख्य मन्त्रिणः श्री यड्यूरप्पस्य गृहे, तत्सम्बन्धिनां गृहेषु कार्यालयेषु च केन्द्रीय गवेषणादलं (उइख) कार्याचरणम्‌ अकरोत्‌ बुधवासरस्य प्रातः काले। बहूनि मुख्यानि आधारपत्राणि गवेषणा दलेन वशीकृतानीति ज्ञायते। यड्यूरप्पस्य पुत्रौ जामाता च आरोपिणः इति प्रथमप्रणिगदनं च न्यायालयाय समर्पितम्‌। एतस्मिन्‌ सन्दर्भे बन्धनं स्यादिति आशङ्क्य यड्यूरप्पः निरीक्षणाप्रातिभाव्यं लब्धुं प्रयत्नशीलोऽस्ति। किन्तु...

फ्रान्स्‌ अध्यक्षने होलाण्डस्था

प्यारिस्‌सप्तदशवर्षानन्तरं फफ्रान्स्‌ देशे सोषियलिस्ट्‌ सर्वकारः अधिकारं स्वीकृतवान्‌। नूतन सर्वकारस्य अध्यक्षस्थानाय फफ्रांकोयिस्‌ होलांडे गते मङ्गळवासरे अधिकार प्रमाणवचनं स्वीकृतवान्‌। समुपकल्पिते सरळसमारम्भे भूतपूर्वाध्यक्षः निकोलस्‌सर्कोजि हस्तलाघवेन अधिकारं हस्तान्तरितवान्‌। समारोहे अनेके गण्याः उपस्थिताः आसन्‌। प्रमाणवचनानन्तरं अध्यक्षवर्यौ ६०निमेषपर्यन्तं सम्भाषणं कृतवन्तौ।प्यारिस्‌सप्तदशवर्षानन्तरं फफ्रान्स्‌ देशे सोषियलिस्ट्‌ सर्वकारः अधिकारं स्वीकृतवान्‌। नूतन सर्वकारस्य अध्यक्षस्थानाय फफ्रांकोयिस्‌ होलांडे...

हिन्दुयात्रिकेभ्योऽपि साहाय्यधनम्‌

चेन्नैमानससरोवरस्य मुक्ति नाथ देवालयस्य च दर्शनाय गच्छतां यात्रिकाणां साहाय्यं क र्तुं तमिळु नाडुसर्वकारो निर्धारं कृ तवान्‌ । अस्मिन्नेव वर्षे योजनेयं कार्यगता भविष्यति । मानससरोवर्तते चीनदेशे । मुक्ति नाथमन्दिरं विद्यते नेपाळदेशे। एतद्‌द्वयं द्रष्टुम्‌ इच्छन्ति बहवो हिन्दवः । एतेभ्यः आर्थिकं साहाय्यं दातुं मम सर्वकार इच्छति इति मुख्यमन्त्रिणी...

जलपानाद्‌ वैद्या अपि भीताः

चण्डीगृहम्‌(चण्डीघर्‌)फरीद्‌कोट नगरे विराजते गुरुगोविन्दसिंह वैद्यकीयविद्यालयः । तत्रत्याः द्विशताधिकाः छात्राः, शताधिकाः वैद्याश्च तत्र लभ्यमानं जलं पातुं बिभ्यति । त्रस्ताः ते विद्यालयं परित्यज्य अन्यत्र वसन्ति । विद्यालये लभ्यमानं जलं युरेनियं मिश्रम्‌ । तस्य पानेन अर्बुदरोग उत्पद्यते इति श‘ा वैद्यान्‌ छात्रांश्च बाधते । पञ्जाबराज्ये अर्बुदरोगस्य प्राबल्यं वर्तते ।...

संसदः षष्टिर्वर्षाणि

नवदिल्लीभारतदेशः स्वतन्त्रो भूत्वा प्रजाप्रभुत्वम्‌ अङ्गीकृ तवान्‌ । तदनुसारेण देशे निर्वाचनानि प्राचलन्‌ । संसदः प्रथमाधिवेशनं षष्टेः वर्षेभ्यः पूर्वं साकारं जातम्‌ । तत्स्मरणाय भानुवासरे (१३५ २०१२) संसदो विशेषाधिवेशनं सम्पन्नम्‌ । प्रजाप्रभुत्वे विश्वासं, भारतसंविधाने श्रद्धां, देशस्यैक्यं च सर्वे सांसदाः प्राकटयन्‌ । राष्ट्रनिर्माणाय सर्वे संकल्पदृढतां चादर्शयन्‌ । अस्मिन्‌ सन्दर्भे...

विद्युच्छक्ति समस्या तीव्रा

बेङ्गळूरुआधुनिके प्रपञ्चो विद्यच्छक्तिं विना जीवनमेव स्तम्भितं भवति । दीपं विना रात्रिः कथं नेया? इति प्रश्नः । नगरेभ्यो जलस्य प्रापणम्‌ अपि विद्युच्छक्ते रुपयोगं विना न शक्यम्‌ । सर्वेषु कार्यागारेषु गणकयन्त्राणि विद्युच्छक्त या चलन्ति । उत्पादनागाराणि मुद्रणा गाराणि च विद्युच्छक्ते रभावे विरमन्ति । निदाघे तापो विना विद्युच्छक्तिं...

निर्वाचनप्रचारः प्रवर्तते

लक्ष्मणपुरम्‌उत्तरप्रदेशे सर्वत्र निर्वाचनज्वरः प्रसृतः । निर्वाचन कार्येषु नियुक्ताः सर्वकारस्य उद्योगिनः निर्विघ्नं निर्वाचनं साधयित्‌ उत्सुकाः । आरक्षकाः दुष्टान्‌ दमयितुं, निर्वाचनापराधान्‌ निवारयितुं च दिवानिशं श्राम्यन्ति । राजकीयपक्षाणां नायकाः स्वपक्षस्य स्पर्धिनां विजयाय प्रतिदिनम्‌ अत्र वा तत्र वा भाषणं कुर्वाणाः कण्ठशोषणं कु र्वते । तेषाम्‌ अनुचराः पक्षचि•ानि ध्वजांश्च वहन्तो...

सिरियादेशे भीकरघर्षणा

बेरुत्‌ सिरियादेशे गते शनिवासरे सुरक्षादलीयाः होम्स्‌नगरे प्रतिभटनाकाराणां विरोधेन आक्र मणं कृ तवान्‌ । अनेन भीक र आक्रमणेन २०० अधिकाः जनाः मृताः इति वार्तायाः अवगम्यते । प्रतिदिनमपि हिंसाचारः अधिकः इति सर्वकारं विरुध्य विश्वसंस्था सुरक्षामण्डल्याः अधिकारिणः निर्णयं उपास्थापयत्‌ ।

उत्तरे निर्वाचनार्भटम्‌

लक्ष्मणपुरम्‌ उत्तरभारते कांग्रेस्‌ पक्षस्य, बहुजन समाजपक्षस्य, तथा भारतीयजनतापक्षस्यर्मध्ये निर्वाचनप्रचारार्भटम्‌ अधिकं भविष्यति । सर्वे पक्षाः स्वस्व जयाय इतरपक्षाणां कार्यवैखरीं अनिन्दन्‌ । भारतीय कांग्रेस्‌पक्षस्य प्रधानकार्यदर्शी श्री राहुल्‌ गान्धिः स्व भाषणे उत्तरप्रदेशसर्वकारः भ्रष्टासर्वकारः इति स्वभाषणे अब्रुवीत्‌ । प्रियांक गान्धि अपि निर्वाचनभाषणं कृ तवती । भारतीयजनतापक्षतः वेंकय्य नायिडु तथा...

दशलक्षाधिका अर्बुदरोगिणः

नवदिल्लीभारतवर्षे प्रतिवर्षं दश लक्षाधिका जनाः अर्बुद (cancer) रोगस्य बलिपशवो भवन्तीति तज्ज्ञाः कथयन्ति । अयं भयंकरो रोगो बहूनां९ मरणस्य कारणम्‌ । रोगस्य चिकित्सा यातनामयी धनव्ययसाध्या च । यदि सर्वे जनाः तमाखूपयोगं सर्वथा त्यक्ष्यन्ति, तर्हि अर्बुद रोगिणां संख्या हीयेत । तदर्थं प्रयत्नः प्रवर्तेत इति विश्वार्बुददिने तज्ज्ञैः घोषितम्‌...
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more