पाकिस्थाने उग्रवादिनां कृत्यम्‌

इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये स्वीयं कौशलं प्रादर्शयन्‌ । तैः सहसा तत्र गुलिकास्त्रप्रयोग आरब्धः। एकः प्राध्यापकः विंशतिः छात्राश्च क्षणमात्रे अस्त्रहताः भूमौ न्यपतन्‌ । षष्ट्यधिका अन्ये व्रणिताः दुःखम्‌ अनुभवन्ति । मृतसंख्या वर्धिष्यते इति ऊह्यते ।...

विमानस्य कथा न ज्ञायते

जकार्ता  ‘एर् एसिया’ संस्थायाः विमानं भानुवासरे क्वापि अदृश्यम्‌ अभूत्‌ नभसि। तस्मिन्‌ विमाने द्विषष्ट्यधिकशतजनाः प्रयान्ति स्म। विमानं समुद्रे पतितं तलप्रदेशं प्राप्तं स्यादिति ऊह्यते घोरे सागरे पतितस्य विमानस्य पूर्णो नाशः संजातः, तत्रत्याः सर्वे मृताः इति च इण्डोनेसियाधिकारिणो ब्रुवन्ति। निपतितस्य विमानस्य इतिवृत्तं ज्ञातुं राष्ट ́ान्तराण्यपि प्रायतन्त, किन्तु फलं...

बेङ्गळूरुनगरे भीकर बांब्‌स्फोटः

बेङ्गळूरुनगरस्य चर्चस्ट ́ीट्‌ समीपे भानुवासरस्य रात्रौ सार्ध अष्टवादने भीकर स्फोटः समभवत्‌। राज्यसर्वकारस्य आरक्षकाधिकारिणः विचारणायां निरताः इति अवगम्यते। बांब स्फोटनेन चेन्नैमूलस्य महिळा श्रीमती भवानी मृताः इति चिकित्सालयस्य वैद्याः पत्रकारान्‌ उद्दिश्य अवोचत्‌। मुख्यमन्त्री श्री सिद्धरामय्यः गृहसचिवः श्री झार्झ आयुक्तः श्री रेड्डिः स्थलं परिशीलितवन्तः। ह्यः रात्रौ भवानी मृतदेहः...

रघुवरदासो झारखणडमुख्यमन्त्री

राञ्चाी –  झारखण्डराज्यस्य मुख्यमन्त्रिस्थानाय श्री रघुवरदासो निर्विरोधं चितः। भारतीयजनता पक्षस्य नेता श्रीमान्‌ रघुवरदासः पुरा उपमुख्यमन्त्री आसीत्‌। शुक्रवासरे तस्य चयनं सम्पन्नम्‌। शीघ्रमेव स प्रमाणवचनं पठित्वा मुख्यमन्त्रिस्थानम्‌ अलङ्करिष्यति।

धर्मान्तरस्वीकारविरोधः

कोल्कत्ताहिन्दुधर्मावलम्बिनां परधर्मप्रवेशः यः कारितः कार्यते वा सः सम्मतोऽस्ति चेत्‌ तर्हि परधर्मप्रविष्टानां प्राक्तनहिन्दूनां हिन्दु धर्मे पुनः प्रवेशोऽपि न्याय्य एव। धर्मान्तरस्वीकारविरोधिनः तादृशविधेरनुष्ठानं समर्थयन्तामिति राष्टि ́यस्वयंसेवकसंघस्य मुख्यः मोहनभागवतः अकथयत्‌। पुनः परधर्मस्वीकारं विरुन्धानाः सर्वान्‌ धर्मान्तरस्वीकुर्वाणान्‌ (सकृदपि स्वधर्मं त्यक्त्वा परधर्मं स्वीकुर्वाणान्‌) रुन्धन्तु इति सः स्वाभिप्रायं स्पष्टमकरोत्‌ ।

मतान्तरविषये महान्‌ कोलाहलः

लक्ष्मणपुरम्‌ – उत्तरभारते विश्वहिन्दू परिषदः द्वारा हिन्दूधर्मजारण समित्या च लक्षाधिकजनाः हिन्दूधर्मं पुनरागताः। ते पुनर्मतान्तरिताः अभूवन्‌। एतस्मिन्‌ विषये लोकसभायां विपक्षनेतारः महान्‌ कोलाहलमेव अकुर्वन्‌। विपक्ष सदस्यान्‌ उत्तरयन्‌ संसदीयव्यवहार सचिवः वेङ्कय्यनायुडुः मतान्तरविषये केन्द्रसर्वकारस्य पात्रं नास्ति। यदि राज्येषु पुनर्मतान्तरकरणानि संदृष्टानि चेत्‌ तानि राज्यसर्वकारशासनारूढ मुख्याः एव नियन्त्रयेयुः। समग्रेदेशे शान्तिः व्याप्तस्ति।...

संयुक्तसर्वकारोऽनिवार्यः?

श्रीनगरम्‌जम्मुकाश्मीरराज्यस्य विधानसभानिर्वाचने न किमपि दलं स्पष्टं बहुमतम्‌ अलभत। अतोऽत्र संयुक्त सर्वकारोऽनिवार्यः। पिडिपिदलं भाजपदलं च संयुज्य यदि सर्वकारं रचयिष्यतः, तर्हि स्थिरं शासनं भविष्यति। पिडिपि दलाय वयं समर्थनां दास्याम इति कांग्रेस्‌दलमपि वदति। केन दलेन मैत्री कांग्रेस्‌दलमपि वदति। केन दलेन मैत्री करणीयेति पिडिपि नायकाः निर्णयं करिष्यन्ति। झारखण्डराज्येऽपि केनापि...

स्वधर्मे पुनः प्रवेशः

वल्सद्‌ – गुजरातराज्यस्य वल्सद्‌ प्रदेशे द्विशताधिकाः जनाः सनातनधर्मं स्वेच्छया प्राविशन्‌। एते जनाःपूर्वं क्रैस्तधर्मं प्रविष्टा आसन्‌। सम्प्रति ते हिन्दुधर्मम्‌ अनुसर्तुम्‌ इच्छन्तः स्वधर्मे प्रवेशम्‌ अलभन्त। विश्वहिन्दुपरिषद्‌ एतदर्थं होमादिव्यवस्थाम्‌ अकरोत्‌। वेदमन्त्राणां पठनं पुरोहितैः कृतम्‌। अस्मिन्‌ धार्मिके समारम्भे सहस्रत्रयाधिकाः वीक्षकाः जनाः उपस्थिताः आसन्‌। भानुवासरे होमादिविधयः सम्पन्नाः। एवं केरलराज्येअळप्पुझा कोलम्प्रदेशयोः...

भारतरष्याणुबन्धाङ्गीकाराय अमेरिकादेशस्य आक्षेपः

नवदिल्लीरष्यादेशस्याध्यक्षः व्लादिमर्‌ पुटिन्‌ भारतदेशमागत्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सार्धं संल्लाप्य अणुबन्धाद्यनेकविषयेषु मिथः साहाय्यं प्रदास्यते इति अङ्गीकारं प्रदत्तवान्‌ खलु। एतं विषयं श्रुत्वा अमेरिकादेशस्य शासनारूढाः मुख्याः अतीवचातुर्येण स्वप्रति क्रियामूचुः। भारतदेशस्य शासनारूढ मुख्याः रष्यादेशेन साकं मैत्रीं चकार। अणुबन्धतैलसम्पर्कतैलविनिमयादि विषयेषु मिथःसाहाय्यसहकाराः प्रदास्यन्ते इति ऊरीचक्रतुःइति तु सन्तोषस्य विषयः। किन्तु उक्रेन्‌देश मुपरि रष्यादेशाक्रमणेन...

अद्यान्तिमं निर्वाचनम्‌

श्रीनगरम्‌काश्मीरविधानसभाया निर्वाचनानां मतदानम्‌ अद्यान्तिमघट्टे प्रवर्तते। विधानसभास्थानानां विंशतिः अद्य निर्वाचने वर्तते। भद्रता व्यवस्था पूर्णा वर्तते। शान्त्या मतदानं भविष्यति, मतदाः निर्भयम्‌ आगत्य मतदानं करिष्यन्तीति निरीक्ष्यते। * छत्तीस्‌गढ  छत्तीस्‌गाढ विधानसभाया निर्वाचनम्‌ अद्य समाप्तिं गता। प्रातः सप्तवादनतः सायं ४ वादनपर्यन्तं प्रचलिष्यति। निर्वाचना आयोगः सुरक्षा व्यवस्था कल्पिता । फलितांशः मासस्यास्य...
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more