मूर्खाः सर्वत्र भवन्ति

अमेरिक देशे कश्चन मूर्खः प्राथमिक शालां प्रविश्य विंशतिं मुग्धान्‌ बालकान्‌, षड्‌ अन्यांश्च निर्दयं गुलिकास्त्रेणामारयत्‌ । अनया घटनया समस्तं जगदेव भ्रान्तम्‌ अभवत्‌ । हन्ता ततः स्वमातरं स्वं च प्राणैर्वियोजितवान्‌ । केन कारणेन स राक्षसकृत्यम् अकरोत्‌ इति न ज्ञायते । तस्य कोऽपि लाभो नासीत्‌ । स्वमेव हन्तुं...

युवतयः पलायन्ते

यौवने देहाक र्षणम्‌ अधिकम्‌ । प्रकृत्या चञ्चालं मनः । धनापेक्षा सर्वान्‌ आवृणोति । एतस्मिन्‌ काले गृहात्‌ पलायनं कुर्वतीनां युवतीनां संख्या वर्षे वर्ष वर्धते । पिता अधिक्षेपं कृतवानिति अल्पेन कारणेन बˆयो युवतयः केनापि साकं पलायनं कृत्वा ततो भ्रान्तिनिरसनेन उभयतो भ्रष्टाः प्राणान्‌ त्यजन्ति । अन्याः काचन वर्णयं...

सर्वाधिकारवाञ्छा

अधिकारासवः सर्वान्‌ मदयति । यावान्‌ अधिकारो लभ्यते, ततोऽधिकम्‌,अधिकारं वाञ्छति । पूर्वेव राजानः एवमेव चक्रु: । अर्वाचीने कालेऽपि हिट्‌लर्‌ प्रभृतयः सर्वाधिकारिणो भूत्वा विश्वविनाशं स्वात्मविनाशं च चक्रु: । प्रजातन्त्रमार्गेणैव प्राप्ताधिकाराः सर्वाधिकारिणो भूत्वा प्रजातन्त्रं नाशयितुं प्रयेतिरे अधुना ईजिप्तदेशस्य एषैव कथा । मुबारक नामानं सर्वाधिकारिणं जनाः पातयामासुः । तस्य...

धनाय किं न कुर्वन्ति?

अस्माकं देशे जनानाम्‌ आराध्यदेवताः चलचित्रनटाः, क्रिकेट्‌क्रीडापटवश्च । तान्‌ समस्ताः प्रजा जानन्ति । प्रधानमन्त्रिणो नाम आजानानोऽपि विद्यार्थी धावनानां शतकं साधितवन्तं क्रीडापटुं जानाति । कस्य चलचित्रनटस्य कया नट्या प्रेप्रसङ्गः प्रवर्तत इति सर्वो वक्तुं समर्थः । एतेषां नटानां क्रीडापटूनां च जनप्रियतां मूलधनं कृ त्वा के चन व्यापारिणः स्वोत्पादितानां...

पदव्यामोहो दुस्त्यजः

अधिकारप्राप्तिवेलायां सर्वे तुष्यन्ति । अधिकारत्यागवेलायां शोचन्ति । अधिकारव्यामोहो दृढो मानवेषु । अधिकारपदे कश्चन नास्तीति ज्ञात्वा समाजः परेद्युवि एव तम्‌ अवजानाति । तस्माद्‌ अधिकारस्थानं त्यक्तुं न कोऽपीच्छति । पुरा केचन तत्त्वनिष्ठा अभवन्‌ । महात्मा गान्धी स्वतन्त्रभारते किमपि स्थानं नैच्छत्‌ । लालबहादुरशास्त्री रेलापघातो जात इति मन्त्रिपदवीम्‌ एवात्यजत्‌...

इयं च तेऽन्या पुरतो विडम्बना

स्वतन्त्रे भारते वर्षे मद्यव्यसनं मा भूदिति महात्मा गान्धी ऐच्छत्‌ । मद्यपानप्रतिबन्धश्च के षुचिद्‌ राज्येषु घोषितः । ततः प्रतिबन्ध एवापाकृतः । सम्प्रति सर्वकार एव धनलोभेन मद्यपानं प्रोत्साहयति वीथ्यां वीथ्यां मद्यापणाम्‌ आरब्धुं प्रशासनमेव ददात्यनुतिम्‌ । शालानां विद्यालयानां देवालयानां च समीपे मद्यापणेन न भवितव्यम्‌ इति यद्यपि नियमो वर्तते,...

सम्मेलने विचारणीयम्‌

होरनाडुक्षेत्रे संस्कृतसम्मेलनं भविष्यतीति श्रुत्वा मोदामहे । कि न्तु सम्मेलने संस्कृतलोकस्य काः समस्याः विचारयिष्यन्ते? संस्कृताभिवृद्ध्यै किं करिष्यते? इति चिन्तनार्हेवावशिष्यते । प्रथमं तावद्‌ विद्यार्थिनां संख्यायाः ह्रासस्य विषये चिन्तनीयम्‌ । पाठशालासु नाममात्रेण विद्यार्थिनः सन्ति । श्रद्धया संस्कृतं वेदं वा मुख्यविषयत्वेन अधीयानाः क्व सन्ति ? संस्कृतविद्यार्थित्वेन वसतिं भोजनं च...

यात्राणां विषये

तीर्थयात्रा पुण्यकरीति अस्माकं भावना । पवित्रं स्थलं गत्वा तीर्थे स्नात्वा देवं पूजयित्वा जनो मुक्तिं लभते इति विश्वासो वर्तते । प्राचीने काले सर्वमिदं सत्यमासीत्‌ । किन्त्वद्य तीर्थयात्रायाः फलं किमिति चिन्त्यं भवति । अधुना जनास्तीर्थयात्रास्वपि सकलं सुखं वाञ्छन्ति । वाहनैः प्रयान्ति । यात्रिकाणां संख्या अधिका इति कारणात्‌...

दीपावली पर्वणः हार्दिक शुभाशयाः

‘‘दीपमूले स्थितो ब्रह्मा दीपमध्ये जनार्दनः । दीपाग्रे शंकर प्रोक्त: दिव्यज्योतिर्नोस्तुते ।।’’ दीपोऽयंक र्मादौ प्रज्वलानात्‌ कर्मसाक्षी इति,विघ्ननाशकत्वात्‌ अविघ्नकृत्‌ इति, तेजोयत्वात्‌ देवस्वरूप इति, अन्धकारनाशनात्‌ प्रकाशक इति, स्वतः प्रज्वल्य परप्रकाशक त्वात्‌ परार्थद्योतक इति, तैलेन वर्धानत्वात्‌ स्वेहरूप इति च बहुधा बहुभिः स्तूयते । तादृशः अयं दीपं अधुना पर्वनिमित्तं सर्वैः...

दीपावल्यां स्फोटकानि मा भूवन्‌

दीपावलीपर्व सन्निहितम्‌ । दीपानाम्‌ आवलिस्तदा गृहे गृहे ज्वलेदन्धकारं चापनयेत्‌ । भारतीयसंस्कृतौ दीपस्य महत्त्वमस्ति । अत एव दीपज्योतिः परब्रह्म दीपज्योतिः परायणम्‌ । दीपेन ह्रियते पापं सन्ध्यादीप नमोऽस्तु ते ।। इति आस्तिकाः दीपज्वालनसमये पठन्ति । देवालयेऽस्मिन्‌ पर्वणि सहस्रदीपार्चनं भगवतस्तोषाय क्रियते । दीपप्रकाशो ज्ञानस्य संकेतः । तमोऽज्ञानस्य संकेतः...
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more