नञ्जनगूडु श्रीकण्ठेश्वरः

मैसूरुपत्तनतः द्वादशमैल्‌दूरे नञ्जनगूडु प्रसिद्धं शैवक्षेत्रम्‌ । देवमन्दिरस्य पुरतः पवित्रतमा कपिलानदी प्रवहति । देवालयस्य दक्षिणभागे “गुण्डलु” नाम्नी नदी प्रवहति । कपिलमहर्षिः अत्रैव तप आचरति स्म । एतत्‌ तीर्थं पुण्यप्रदम्‌ इति स्थलपुराणानि विवृण्वन्ति । अमृतसम्पुदनाय देवाः दानवाश्च क्षीरसागरे मन्दरं पर्वतं मन्थानं कृत्वा वासुकिं रज्जुं विभाव्य ममन्थुः ।...

भस्मासुरा एते

पुराणेषु भस्मासुरस्य कथा श्रूयते । स शिवमभिसन्धाय तपस्तेपे । प्रसन्नः शिवः प्रत्यक्षो बभूव । कंवरमभिलषसीति पप्रच्छ । यस्य शिरसि करं निदधामि, स भस्मीभवेदिति वरं देहीति असुरो ययाचे । तथास्तु इति शिव उवाच । ततोऽसुरः “वरदानं सत्यं न वा ” इति परीक्षितुं शिवस्यैव शिसि क रं...

वर्णोत्पत्तिः

जगतीतलेऽस्मिन्‌ पाश्चात्याः पौरास्त्याश्च बहवः पण्डिताः वेदानां गवेषणविषये नूतनसरण्या पठनपाठनप्रमेऽपि च प्रयतमानाः दृश्यन्ते । भारतीयेष्वपि तादृशीं सरणिमनुगच्छन्तः बहवःपरिशोभन्ते । वेदानां पाठनपाठनसमुत्सुकेष्वेतेषु अतिप्राचीनसम्प्रदायनिर्वाहकाः भारतवर्षीयाः एव केवलं धन्यवादानर्हन्ति । यतः एत एव महता यत्नेन समस्तांस्वीयांवेदसंहितां हृदिस्थां कु र्वन्ति । गुरुमुखतोऽधीत्य परिशुद्धोच्चारणप्रकारञ्च जानन्ति । अधीतिबोधाचरणप्रचारणेभ्यःसर्वदा प्रयतन्तेच । वेदभक्तानां एतेषामेव...

निर्वाचनतन्त्राणि

निर्वाचनं युद्धम्‌ एव । शान्तिमयं रक्त पातरहितं कि न्तु उत्साहस्य उद्रेक स्य उद्वेगस्य च प्रचोदने इदं युद्धम्‌ अपि अतिशेते । युद्धे इव अत्रापि दलानि अन्तिमक्षणपर्यन्तं “विजयः अस्माकम्‌ एव” इति जोघुष्यमाणानि कामपि भ्रान्तिं प्रजानां मनस्सु उत्पादयितुम्‌ अनुवर्तयितुं न प्रयतन्ते । प्रसक्ते निर्वाचने प्रादेशिकानां दलानां विचारः एकत्र...

वालसाद्‌ महत्वं

वडोदरा गुर्जरराज्यस्य वाल्साद्‌नगरे लोक सभा निर्वाचनपक्षः केन्द्रे अधिकारं वक्ष्यति इति महत्वपूर्णः विषयः प्रकाशितः । विवरम्‌ १९७७ तम वर्षे जनता पक्षः विजयमलभत केन्द्रे मोरार्जी देसाई जनतापक्ष सर्वकारः अधिकारं अवहत्‌ । १९८० तमे वर्षे कांग्रेस्‌ पक्षः विजयमालां प्राप्नोत्‌ श्रीमती इन्दिरा गान्धी प्रधानमन्त्री स्थानं अलमकुर्वत्‌ । १९८४ तमे...

युगादिपर्व शुभमानयतु

चान्द्रमानेन नूतनं वर्षम्‌ आरब्धम्‌ । सर्वधारिसंवत्सरो गतः । विरोधिसंवत्सर आगतः । युगादिपर्व इति चैत्रशुक्ल प्रतिपदं दाक्षिणात्या आचरन्ति । एतत्‌ पर्व सर्वेषां जनानां शुभमानयतु इति सुधर्मा आशास्ते । वर्षेऽस्मिन्‌ काले पर्जन्यो वर्षतु । सस्यानि समृद्धानि भवन्तु । जना भीतिरहिताः सुखेन जीवन्तु । पुत्रपौत्रादिसहिताः प्रजाः रोगादिपीडां विना...

नीतिसंहितानुष्ठानम्‌

केन्द्रनिर्वाचनायोगः नीतिसंहितानुष्ठाने नियमान्‌ निर्दाक्षिण्यं प्रवर्तयतीति सन्तोषस्य स्थानम्‌ । सर्वत्र वाहनानां परीक्षा भवति । अधिकं धनं ये नयन्ति तेषां परीक्षणं वशीकरणं च भवति । मद्यं येसंगृ†न्ति, वितरन्ति वा, तान्‌ संहिता प्रवर्तका निगृह्रन्ति, दण्डयन्ति च । एवं च प्रचारस्य आर्भटो न्यूनः । प्रजाः अभ्यर्थिनां गुणदोषान्‌ विमृश्य मतं...

भरतवर्षस्यैकतायाः अपायः

अखिलं भारतं वर्षं ख्ल्वेकं राष्ट्रम्‌ । सन्तु शतशो जातयः, वर्तन्तां सहस्रशो मतानि, भवन्तु बह्व्योः भाषाः, विद्यन्तां विविधाः वेषभूषाचारनीतिरीतयः राष्ट्रस्यैकता सर्वदा अबाधिता । वैविध्ये ऐक्यम्‌ इत्येवास्य विशेषः । पूर्वं देशस्यैक्यं विस्मृत्य यदा जनाः स्वार्थपरा बभूवुः , तदा बहुधा बहुकृत्वः परेषां दास्यश्न्काृला देशमिमं बबन्ध । तस्याः शृन्कलायाः...

अपीदं नाट्यम्‌ ?

भरतमुनिप्रणीते नाट्यशास्त्रे लोकस्य चरितं नाट्यम्‌फफ इति पठामः । देवादीनां सन्तोषाय ब्रह्मोपदेशेन प्रादुर्भावितं, वेदादीनां समानत्वेन परिगणितं नाट्यशास्त्रं सर्वलोक पूजनीयमभूत्‌ । तस्य नाट्यस्य बहुषु देशेषु प्रदेशेषु च विभिन्नाः रू पविशेषाः जज्ञिरे । द्रविडदेशस्य भरतनाट्यं, पूर्वभारतस्य मणिपुरी नृत्यं, कर्णाटानां यक्षगानं, केरलानां कथक्कलीनर्तनं च एक स्याः कलायाः रूपान्तराणि ।...

धर्मो रक्षति रक्षितः२

नैक धर्मोऽयं देशः । जनबहुलता शासकानां धर्मसहिष्णुता चात्र हेतुः । श्री गान्धीमहाभागः सर्वे धर्माः समानाः सन्ति इति उपदिदेश । अतदः सर्वेऽपि स्वं स्वं धर्मं आचरेयुः । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः इति गीतायां उक्तम्‌ । भारतवर्षे प्रायः धर्ममेवाभ्युदयनिःश्रेयसकरं जानन्ति । कर्तव्यविषये भारतीयाः मा कर्म लहेतुर्भूः...
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more