मतपरिवर्तनं केन कारणेन

विश्वस्मिन्‌ एकं गम्यं प्राप्तुं नाना पन्थानो भवन्ति। रुचीनां वैचित्र्याद्‌ ऋजुटिलनानापथजुषां नृणाम्‌ एको गम्यस्त्वमसि पयसाम्‌ अर्णव इवेति भक्तः कविर्वदति। तस्माद्‌ यो येन मार्गेण चरितुम्‌ इच्छति स तेन चरतु। अमुम्‌ एव मार्गम्‌ आश्रयेति निर्बन्धो न युज्यते। तथापि लोके वयं पश्यामः परिवर्तनायै निर्बन्धम्‌। कानिचन मतानि खङ्गं दर्शयित्वा भयम्‌...

जनतापरिवारस्यैकता

जनतापरिवारो नानाकारणैः पूर्वं शतधा भिन्नोऽभूत्‌। जात्यतीत जनतादनलं संयुक्तजनतादलं समाजवादिदलं राष्टि ́यजनतादलम्‌ इत्यादयः पक्षा अद्य तत्र तत्र विद्यन्ते। तेषां सर्वेषाम्‌ एकतायै प्रयत्न आरब्धः। एकतां साधयितुं परस्परवैरिणोऽपि एकत्र मिलिताः। पूर्वं ते अन्योन्यनिन्दायां प्रवृत्ताः। किन्तु भारतीयजनतापक्षं विरोद्धुं तेषां समवायोः जातः। काग्रेस्‌पक्षं भारतीयजनतापक्षं च परित्यज्यान्ये सर्वे तृतीयरङ्गं रचयेयुः इति...

पाकिस्थानम्‌ उग्रान्‌ दमयति किम्‌?

पाकिस्थानं स्वयम्‌ उग्रवादिनो मतान्धान्‌ पूर्वम्‌ अपोषयत्‌। भारतवर्षं द्वेषेण पश्यत्‌ तद्राष्टं काश्मीरप्रदेशे अशान्ति ̈ प्रसारयितुं तान्‌ प्रयोजयति स्म। मुम्बयीनगरे तदीयैहिंसाकारिभिः महान्‌ क्षोभो जनितः बहवो मुग्धा जनाः मारिताश्च। सम्प्रति तदनुयायिनः तालिबान्‌ हिंसाकारिणः स्वदेशेऽपि प्रतापं दर्शयितुं सिद्धाः। शालां प्रविश्य बालान्‌ अपि ते न्यघ्नन्‌। स्वदोषं ज्ञात्वा पाकिस्थानं हिंसापरान्‌ तालिबानीयान्‌...

भारतदेशस्य मुख्यसमस्या जनसंख्या

भारतदेशेऽधुना जना अत्यधिकाः। प्रतिवर्षं, प्रतिदिनं जनसंख्या वर्धते। प्रपञ्चादृष्ट्या अत्र जनसंमर्दो महान्‌। अन्यत्र यस्मिन्‌ स्थले एको वसति, तस्मिन्‌, अथवा तावति स्थले अष्टौ भारतीया वसन्ति। अत एवात्र आहारस्य जलस्य वसतेश्च दौर्लभ्यम्‌। उद्योगाभावस्यापीदमेव कारणम्‌। यदि एषैव परिस्थितिरनुवर्तिष्यते, तर्हि महान्‌ अनर्थो भविष्यति। इदानीमेव जागरूकता आश्रयणीया। कापि स्त्री द्वाभ्याम्‌ अधिकान्‌...

सर्वेभ्यः सन्मतिं देहि भगवन्‌

‘‘सब को सन्मति दे भगवान्‌’’ इति गान्धीमहात्मनः प्रार्थना भारतीयानां मनस्सु अद्यापि नरीनर्ति। नास्त्येव काचित्‌ प्रार्थना राष्ट ́पितुः प्रयाचनामतिशयाना। सः भगवन्तं स्वार्थाय वित्तं हेम वा न याचते। किन्तु हिंसाकौर्याशान्तीनां पूर्णविरामाय सर्वेभ्यः सन्मतिं देहीति प्रार्थयते। यदा यान्त्यापदस्तदैव साधारणो जनो भगवन्तं स्मरति, पूजाकर्मणि प्रवर्तते। किन्तु भगवान्‌ नयनगोचरो भूत्वा...

औषधप्रयोगपरीक्षाः

नूतनस्यौषधस्यान्वेषणे कृते, शीघ्रमेव तस्य रोगिषु प्रयोगो न सम्भवति। आदौ मर्कटेषु तस्य प्रयोगः क्रियते। तत्र कोऽपि अपायो न भवतीति यदा सिद्धं भवति, तदा मानवरूपेषु प्रयोगपशुषु तस्य प्रयोगः क्रियते। यज्ञपशुवत्‌ स्वं कश्चित्प्रयोगविषयीकर्तुं सिद्धो भवति। तस्यौषधस्य परिणामः कदाचित्‌ साधुर्भवति। यज्ञपशोः पुरुषस्य कापि हानिर्न भवति। तेन किञ्चािदधनमपि लभ्यते। किन्तु...

गणनायकस्तुतिः

सच्चिदानन्द रूपञ्चापाशाङ्‌कुधरंपरम्‌ । पीताम्बरधरं तं च वन्देऽहं गणनायकम्‌ ।। कल्पद्रुमसमंदेवं कर्णकुण्डल धारिणम्‌ । कलारूपं च तं देवं वन्देऽहं गणनायकम्‌ ।। गन्धोदकं यथापूतं तथैवास्य पदोदकम्‌ । तस्मादपि कथातस्य वन्देऽहं गणनायकम्‌ ।। यदा स मुदमाप्नोति सदा नृत्यति तोषितुं । सद्गुणैस्संयुतं तं च वन्देऽहं गणनायकम्‌ ।। मल्लिकार्जुन पुत्रोऽसौ...

समग्राभिवृद्धिर्भवतु

देशेप्रगतिरेव न जातेति वक्तुं न शक्यते। आर्थिकी सांस्कृतिकी चाभिवृद्धिस्तत्रतत्र गोचरीभवति। किन्तु इयं प्रगतिरभिवृद्धिर्वा न सार्वत्रिकी। केचन ग्रामा अद्यापि दयनीयायां परिस्थितौ भवन्ति। तत्र स्नानस्यास्तु कथा, पानायापि जलं दुर्लभम्‌। देशस्यैव नेयं कथा। राज्येष्वपि कानिचित्‌ नगराण्येव सर्वकारैः पोष्यन्ते। ग्रामान्तरप्रदेशास्तु अवज्ञाम्‌ अनुभवन्ति। अयं पक्षपातः प्रायशः सर्वेषु राज्येषु दृश्यते। कर्णाटकराज्यस्य...

रेलयानमार्गे दुर्घटनाः

रेलयानानि वेगेन चलन्ति। तन्मार्गेऽन्यद्‌ यानं यदि आगच्छति, तर्हि दुर्घटनानिवार्या भवति। भारतवर्षे प्रतिवर्षं बह्व्यो दुर्घटनास्तादृश्यो भवन्ति। बहवो जना म्रियन्ते एतासु दुर्घटनासु। सर्वासु पत्रिकासु पुनः पुनः विज्ञापना प्रकाश्यते रेलमार्गतरणवेलायां जागरूकता अपेक्षिता, तत्र प्रमादो मृत्युम्‌ आवहेदिति। तथापि जनाः, विशेषतो वाहनचालकाः, अनवधानेन मृत्युम्‌ आह्वयन्ति। सर्वत्र द्वारपालकान्‌ नियुक्तान्‌ कर्तुं महान्‌...

गीतोपदेशो युद्धरङ्गे कस्मात्‌ कृत:?

भगवद्‌गीता सर्वासाम्‌ उपनिषदां सारं बोधयतीति विद्वांसो वदन्ति। उपनिषदो गुरुकुलेषु ऋष्याश्रमेषु प्रशान्तप्रदेशेषु वा आविर्भूता:। तासां सारत्वेन परिगण्यमाना भगवद्‌गीता कस्मात्‌ सङ्ग्रामाङ्गणे समुपदिष्टा ? तत्रत्या योधा: शङ्खान्‌ धमन्ति स्म। धनूंषि बाणान्‌ खङ्गान्‌ अन्यान्यायुधानि च धारयन्तो युद्धाय सिद्धा आसन्‌। तादृशे सन्दर्भे अध्यात्मोपदेश कथं संजाघटीति? पूजार्है: गुरुभि: सह, प्रीतिपात्रैर्मित्रै: सह...
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more