किं वयं नागरिकाः?

वयं नागरिका इति सभ्या इति संस्कृतिमन्त इति कत्थामहे । किन्तु क्षणे क्षणे कथं प्रवर्तामहे इति यदा चिन्तयामस्तदा अस्माकं सभ्यतायां सन्देहसन्दोह उत्पद्यते । संवादकार्यक्रमे भागं वोढुं श्रीरामसेनायाः नायको मुतालिकः आगतः। चर्चा प्रवृत्ता । तदा कांग्रेस्‌पक्षस्य कार्यकर्तारः सहसा वेदिकां प्रविश्य मुतालिकस्य मुखं मष्या प्रसभम्‌ अलिम्पन्‌ । एषा...

भ्रष्टाचारकुशलौ दम्पती

क्व चित्पतिः भ्रष्टाचारी, पत्नी दैवभक्ता, धर्मानुयायिनी परोपकारिणी च । क्वचिदेतद्‌ विरुद्धमपि दृश्यते । पतिर्धर्ममार्गे जिगमिषति । पत्नी तु तं भ्रष्टाचारेण धनमार्जयितुं प्रेरयति । मध्यप्रदेशे भूपालनगक्षरश्रे दम्पती उभावपि उन्नताधिकारिणौ । उभौ भारतराष्ट्रियसेवान्तर्गतौ । ऐएएस्‌ पदव्या भूषितौ । उभौ भ्रष्टाचारपरिणतौ । ताभ्यां महती धनसम्पद्‌ आर्जिता । सम्पादितं...

वृक्षारोपणेन किं फलम्‌?

वृक्षारोपणं पुण्यकार्यम्‌ । सर्वाणि शास्त्राणि तत्प्रशंसन्ति । पञ्चाम्रवापी नरकं न याति इति पुराणं वदति । तथैव कर्णाटक सर्वकारो बहुत्र नाना वृक्षकान्‌ आरोपयत्‌ । किन्तु आरोपणमात्रेण वृक्षको वृक्षो न भवति । निदाघे सूर्यातपस्तीव्रो वृक्षकान्‌ शोषयति । अस्मिन्‌ काले यदि जलं न दीयते, तर्हि ते वृक्षका म्रियन्ते...

भटाः तनुमध्याः भवेयुः

आरक्षकविभागे भटाः अधिकारिणश्च सम्यग्‌ व्यायामं कृ त्वा तनुमध्या भवेयुः, अपराधिनां ग्रहणे शीतका न भवेयुः इति जना निरीक्षन्ते । यदि भटास्तुन्दिलाः, क थं ते धावन्तमपराधिनं गृ†ीयुः? अधुना चोराः शीघ्रगामिनः । ते खलु विविधैर्वाहनैर्यान्ति । अत एव मैसूरुनगरस्य आरक्षकायुक्तः श्रीमान्‌ सुनीलः अग्रवालः परिपत्रं प्रेषितवान्‌ सर्वेभ्यः आरक्षक स्थानेभ्यः...

यद्यदाचरति श्रेष्ठः

साधारणो जनः महतः अनुसरति, अनुवर्तते, अनुकरोति च । महानुभावैः प्रोक्तं सर्वदा नानुसरति, अपि तु तैः कृतं ज्ञात्वा तथा कर्तुं यथाशक्तिं यथावकाशं च प्रयतते। अन्यथा कृत्वा अन्यथा यदि कश्चित्‌ भाषते, तर्हि तस्य भाषितं बधािकर्णजापायते । राष्ट्रस्य उन्नतेषु सिंहासनेषु उपविष्टाः नायकाः यदि स्वच्छशीलाः, तर्हि जनोऽपि तान्‌ अनुकुर्यात्‌...

सूर्यग्रहणस्य विशेषाः

शुक्र वासरे जातं सूर्यग्रहणं बहुभिः कारणैः विशिष्टमिति परिगण्यते । दीर्घकालिकं ग्रहणं भूलोक स्य बहुषु स्थलेषु दृष्टमित्येको विशेषः । पूर्णप्रायं ग्रहणं भारते दृष्टम्‌ । अनेके षु देशेषु कन्कणाकारः सूर्यो दृष्टः । पुनरेतादृशं ग्रहणं सहस्रवर्षाद्‌ अनन्तरम्‌ एव भविष्यतीति वैज्ञानिकाः कथयन्ति । आस्तिकैः ग्रहणकाले उपवासजपतर्पणादयः कृताः । देवालयेषु...

जिह्वा कलहस्य कारणम्‌

भूतपूर्व प्रधानमन्त्री श्रीमान्‌ हेच्‌डि देवेगौडः कृषीवलान्‌ उद्दिश्य भाषमाणो मुख्यमन्त्रिणं श्रीमन्तं यड्यूरप्पं दुष्टैरवाच्यैः पदैरनिन्ददिति वार्ता प्रसृता । सार्वजनिक वेदिकायां भाषमाणैः साधवः सभ्याः शब्दाः प्रयोक्तव्याः । तं नियमं भङ्‌क्त्वा प्राक्त न प्रधानमन्त्री अभाषतेति आश्चर्यजनक मिदम्‌ । ततः कुपिता यड्यूरप्पाभिमानिनः तत्र तत्र कोलाहलमकुर्वन्निति श्रूयते । एतदनपेक्षितमिति अस्माकं भाति...

कस्य कृते धनं नास्ति ?

अभिवृद्धिकार्याणां कृ ते धनं नास्ति, प्रवाहसन्त्रस्तानां परिहारस्य कृ ते धनह नास्ति । किन्तु कर्णाटक राज्यसर्वकारस्य मन्त्रिणां वैभवस्य कृते पर्याप्तं धनमस्ति । मुख्यमन्त्रिणा हेलिकाप्टरस्य प्रयाणाय कोटिशो धनं व्ययितं भवति । मन्त्रिणां कार्‌यानानां क्र यणाय, तेषां सौष्ठवसम्पादनायै च लक्षशो धनं व्ययीक्रियते । अस्मिन्‌ वर्षे नूतनानां कार्‌यानानां क्र...

शासनं भुक्तं न कश्चिदर्हति

रुचिकाख्या कन्या आरक्षक दस्योन्नताधिकारिणा राथोरेण लैन्गिक हिंसायाः विषयीकृता । अपमानं घोरम्‌ असहमाना सा प्राणान्‌ अत्यजत्‌ । प्रबलः अपराधी शिक्षां नालभत । शासनं दुर्बलान्‌ अल्पीयसे अपराधायापि तीव्रं दण्डयति, प्रबलान्‌ परित्यजति, लघुना दण्डेन वा तान्‌ मुञ्चति । एतद्‌ विरुध्य राष्ट्रस्य सर्वे मतिमन्तः ध्वानम्‌ अकु र्वन्निति हेतोः सम्प्रति...

स्वस्तयेऽस्तु वत्सरो नवः नववत्सरोऽस्तु सिध्ये

अपरोऽपि वत्सरः गतः । नूतनः वत्सरः पदं न्यरतः । इयं सहसा प्रक्रि या । किं तु वर्धिषावः तत्र चिन्तयन्ति । गते वर्षे कृतः संकल्पः सिद्धो वा ? सिद्धश्चेत्‌ कि यत्‌ ? असिद्धः सक ल्पः कि यान्‌ इति च तत्र शिष्टः सन्कल्पः नूतनवत्सरे क थं सिध्येत्‌...
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more