सुशासनं कदा भविष्यति ?

ये अधिकारे भवन्ति, ते प्रजानां कष्टं न जानन्ति । राजानः स्वच्छन्दानुसारेण शासनं कुर्वन्ति । यथेच्छं करान्‌ विदधति । कठिनं कारागृहवासं विदधति । बन्दिभ्यः । कस्य का समस्येति न जानन्ति । अद्यतना मन्त्रिणोऽपि न भिन्नास्तेभ्यः । एतद्विषये काचन कथा । आसीत्‌ कश्चन राजा । तस्य शासने...

जीवनशैली परिवर्तनीया

अद्य मानवः समस्यावर्ते पतितः। एकत्र देहस्य रोगाः, अन्यत्र मनसः चिन्ताः। एकत्र प्रातिवेशिकैः सह कलहाः, अन्यत्र कार्यवैफल्येन नैराश्यम्‌। सदा परेषां निन्दा, मया प्राप्तव्यं गौरवं न लब्धम्‌ इति अतृप्तिः। अस्य सर्वस्य दुःखस्य कारणं किम्‌? इति विचारयामश्चेत्‌, अद्यतनी जीवनशैलीति स्पष्टं ज्ञायते। जीवनशैल्याः परिवर्तनां विना मार्गान्तरं नास्ति। तत्कथम्‌ इति...

जलसंरक्षणं कार्यम्‌

वर्षाकालो गतः। हेमन्त आगतः। पुनः निदाघ आगमिष्यति। इदानीमेव जलदौर्लभ्यं दृश्यते। किं भविष्यति निदाघे ? वर्षे वर्षे कथैषा प्रत्यावर्तते। सर्वकारः किमपि करोतु, समस्यां परिहरतु इति जना निरीक्षन्ते। सर्वकारः सर्वत्र किं कर्तुं प्रभवति? जनैः स्वयं समस्यायाः परिहारोऽन्वेषणीयः। अस्माकं देशे वर्षाकाले देवो वर्षति। तदा प्रवाहो हानिं जनयति। बहु...

दुराशा सर्वनाशाय

आशा दुःखस्य मूलम्‌ इति भगवान्‌ बुद्ध आह। तत्रापि दुराशा न केवलं दुःखाय, अपि तु सर्वनाशाय। जनाः स्वश्रमेण धनं प्राप्तुम्‌ इच्छन्ति चेत्‌, न्याय्येन मार्गेण सुखं वाञ्छन्ति चेत्‌, तत्र न दोषः। किन्तु बहवो विना श्रमेण धनं प्राप्तुम्‌ इच्छन्ति। पन्थाः न्याय्यो वा तदितरो वा भवतु, भूरि धनं प्राप्तव्यम्‌...

नगरसञ्चाारवाहनानि

यथा प्रपञ्चास्य देशान्तरेषु, तथा भारतेऽपि दिने दिने नगर्यो वर्धमाना एव भवन्ति । प्रत्यहं शाखानगराणि उद्भवन्ति, नूतनवसतिगेहानि निर्मीयन्ते, गृहनिर्माणसंस्थाश्च दिवानिशं जायन्ते। निर्माणिकानां कार्यालयानां व्यापारसंस्थानां च बाहुल्यात्‌, तादधीन्ये स्थितानां सेवकानां कर्मकराणां अधिकारिणां च संख्या समेधते । एवं च कदापि पर्याप्तता नास्ति वसतिगृहाणाम्‌ । परिणाम एष सञ्जातः यत्‌...

गणकयन्त्रे नूतनतन्त्रज्ञानम्‌

गणकयन्त्रं नवीनैः विज्ञानिभिः आविष्कृतेषु साधनेषु साधनेषु अत्यमूल्यं बहूपयोगि च। सहस्रस्य जनानां मस्तिष्के ये विचाराः स्मृतिरूपेण स्थाप्यन्ते ते एकस्मिन्नेव गणकयन्त्रे दत्तांशरूपेण क्रूडीकर्तुं शक्यन्ते। अतः गणकयन्त्रस्य गरिमा दिने दिने एधमानः वरीवर्ति। यथा महतामपि काचित्‌ न्यूनता भवति तथैव अत्रापि काचित्‌ न्यूनता दृश्यते। यन्त्रे अत्यन्तं प्रमुखाः, सरहस्याः, बहूपयोगिनः च...

इमानि भारतरत्नानि

१. चक्रवर्ती राजगोपालाचारी १९५४ २. सर्‌.सि.वि.रामन्‌ १९५४ ३. डा.एस्‌.राधाकृष्णन्‌ १९५४ ४.भगवान्‌ दासः १९५५ ५. सर्‌.एम्‌.विश्वेश्वरय्यः १९५५ ६.जवाहरलालनेहरू १९५५ ७.गोविन्दवल्लभपन्तः १९५७ ८.डि.केशवकर्वे १९५८ ९. बि.सि.राय्‌ १९६१ १०. पुरुषोत्तमदासः टण्डन्‌ १९६१ ११.बाबुराजेन्द्रप्रसाद १९६२ १२.झाकीर् हुसेन्‌ १९६३ १३.पाण्डुरङ्ग वामन काणे १९६३ १४.लालबहादूरशास्त्री १९६६ १५. इन्दिरागान्धी १९७१ १६. वि.वि.गिरिः...

दयनीयायां स्थितौ कांग्रेस्‌पक्षः

अस्य वर्षस्यादौ कांग्रेस्‌पक्षो भारतवर्षं शास्ति स्म। केषुचिद्‌ राज्येषु च तस्य प्राबल्यम्‌ आसीत्‌। सम्प्रति लोकसभायां तस्य प्रबलविरोधिपक्षत्वम्‌ अपि नास्ति। राज्येषु च क्वचिदेव तस्य शासनं प्रवर्तते। कर्णाटकराज्ये तस्य प्राबल्यं विद्यते। किन्त्वन्यत्र तस्य दौर्बल्यं दिने दिने वर्धमानं दृश्यते। अद्य प्रकट्यमानेषु निर्वाचनफलितेषु झरखण्डे कांग्रेस्‌पक्षस्य द्वितीयमपि स्थानं नास्ति। जम्मुकाश्मीरराज्येऽपि तत्‌...

सुधर्मा प्रश्नमञ्चाः५१उत्तराणि

३२५. मधुसूदन सरस्वती महाभागः भगवद्गीताध्यानश्लोकानां रचयिता । ३२६. दैवी गुणैः मोक्षः प्राप्यते । ३२७. सर्वधर्मान्‌ परित्यज्य मामेकं शरणं व्रजः . मा शुचः ’ श्लोकः गीतायाः अन्तिमः उपदेश श्लोकः । ३२८. बलरामस्य ध्वजलाञ्छने तालवृक्षचित्रं शोभते । ३२९. युयुधानःकस्य सत्यकस्य पुत्रः (अतः सात्यकः) । ३३०. वासुदेवः आनक...

सुधर्मा प्रश्नमञ्चाः ५२

३३१. न्यूजीलाण्ड राष्ट्रपक्षी कः ? ३३२. ‘‘मुद्रेयं सर्वमङ्गला’’ इति कस्यवित्तकोशस्य घोषवाक्यम्‌ ? ३३३. सोमालिया देशस्य राष्ट्र ́ीयभाषा का ? ३३४. कस्य स्मरणार्थं गेट्‌ वे आफ्‌ इण्डिया रचिता ? ३३५. भूतान राष्ट्रध्वजे किं चित्रं शोभते ? ३३६. बेलिजे देशस्य राष्ट्रियः वृक्षः कः ? (उत्तराणि अग्रिम सञ्चािकायां)
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more