कः सुखी नरः?

राजना कश्चन रोगपीडितः आसीत्‌ । कुशलाः राजचिकित्सकाः आगमन्‌ । चिकित्सां च यथोचितमकुर्वन्‌ । सः न स्वस्थः अभूत्‌ । अन्ये समीपग्रामस्थाः निपुणाः चिकित्सकाश्च आजग्मुः । तेऽप्यसमर्थाः राज्ञः रोगनिवारणे समजनिषतः । राजा घोषणां प्राकटयत्‌ ‘‘यः कोपि मां नीरोगं करोति तस्मै अर्धराज्यं प्रदास्यामि’’ इति । देशीयाः, अन्ये च...

हंससन्देशः५५

अस्मत्पूर्वैः सुरपतिहृतं द्रष्टुकामैस्तुरङ्गं भित्वा क्षोणीमगणितबलैः सागरो वर्धितत्मा । सत्कारार्थं तव यदि गिरीनादिशेत्‌ गुप्तपक्षान्‌ अश्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः।। रामचन्द्रः हनुमता प्रोक्तां कथां मनसि विचिन्त्य हंसं स्वस्य पूर्वजैः यथा सागरः वर्धितोऽभूत्‌, सः हनूमन्तं यथा उपचरितुमयतत इति विवृणोति। ‘‘हे ! राजहंस ! अस्मत्पूर्वजैः कथं सागरः वर्धितोऽभूत्‌ इति कथयामि।...

ग्रन्थपरिचयः – संस्कृतकवितासाधना

ग्रन्थनाम : संस्कृतकवितासाधना ग्रन्थकर्ता : डा.रामकिशोरमिश्रः स्थलम्‌ : १९५/१४, पट्टीरामपुरम्‌ खेिकडा२५० १०१, उत्तरप्रदेशः मूल्यम्‌ : १०० रूप्यकाणि ग्रन्थकारस्य परिचय इत्थं दत्तो ग्रन्थे ओश्ङ्कारमिश्रसम्भूतो होतीलालमिश्रः पिता। देवी प्रातः स्मरणीया मातृत्वेन कलावती। ययोरंशेन मे देहे रक्तं वहत्यहर्निशम्‌ । संस्कृतकवितासाधना मया ताभ्यामर्पिता ।। भारत उत्तरप्रदेशे एटाजनपदसोरोंवासी काव्यकथोपन्यासरचयिता शूकरक्षेत्रवासवान्‌।...

हंससन्देशः५२

सव्यं तस्याः किंयदिव गतः श्यामताळीतमालां त्वत्प्रायाणां तरुणवयसां चेतसो नन्दयित्रीम्‌। वेलामब्धेर्विविधलहरीदत्तमुक्ताभिरामां लक्ष्यस्यारात्‌ द्विगुणपुलिनां केतकीनां परागैः।। रामचन्द्रः विश्रान्तियोग्यात्‌ ताम्रपर्णीनदीपुलिनप्रदेशात्‌ गच्छतः तव मार्गे वामभागे एव सागरः वर्तते। त त्वं द्रक्ष्यसि इति हंसं वक्ति। ‘हे राजहंस! प्रदेशादस्मादेव समुद्रः तव दृग्गोचरो भविष्यति। अत्यन्तसमीपे एव वर्तमानस्य समुद्रस्य मार्गे केतकीवृक्षाः तमालवृक्षाश्च असंख्याकाः...

हंससन्देशः५१

तस्यास्स्वैरं सरसिजमुखास्वादसंप्रीतचेताः शीतीभूतस्तरळलहरीबाहुसंश्लेषणेन । अध्यासीनः पुलिनमनिलैः वीजितश्चन्दनाद्रेः श्रान्ति ̈ शान्ति ̈ गमयतु भवान्‌ सागरं लङ्घयिष्यन्‌ ।। रामचन्द्रः ताम्रपर्णीनदीपुलिनेषु कञ्चाित्कालं विश्रम्य ततः समुद्रं त्वं लङ्घयेः इति संसूच्य हंसं तत्रत्यां परिस्थितिं वर्णयति। ‘हे राजहंस! भविष्यति त्वया सुमहत्‌ कार्यं करिष्यमाणं वर्तते। समुद्रः लङ्घयितव्यः। अद्य त्वं बहुदूरं क्रमितवानसि। विश्रातिं...

हंससन्देशः ५०

मुक्ताजालैर्जनितपुलिनां शुक्तिसन्तानमुक्तैः तारापूर्णां दिवमिव ततस्ताम्रपर्णिं भजेथाः। प्रत्यासत्या नियतविशदं पीतसिन्धोर्महर्षेः पानीयं ते परिणमयिता तत्र मुक्तामयत्वम्‌।। रामचन्द्रः हंसं वक्ष्यति ‘पाण्ड्यदेशात्पुरः गच्छता त्वया ताम्रपर्णी नदी संदृश्यते। अपि च आरादेव सागरः परिदृश्यते’ इति। ‘हे राजहंस ! संक्रान्तेषु पाण्ड्येषु त्वं ताम्रपणर्ीं नदीं पश्यसि। समुद्रस्यातीव सामीप्यात्‌ ताम्रपर्ण्यां नद्यां शुक्तयः असंख्याकाः। शुक्तयः...

हंससन्देशः – ४९

ईशादस्त्राण्यधिगतवतां क्षत्रियाणां प्रभावात्‌ काराऽऽवाससस्मरणचकितैस्सिक्तसस्यांपयोदैः। पश्यन्यायाः परमलकया स्पर्धमानैरजस्रं पुण्यावासैः पुरजनपदैर्मण्डितान्पाण्ड्यदेशान्‌ ।। रामचन्द्रः स्वप्रियायै सन्देशनयनकर्मणि विलम्बः नैव भूयादितीव पाण्ड्यदेशे द्रष्टव्यप्रदेशान्‌ संक्षेपेण प्रर्यचाययन्‌ ‘‘शीघ्रं यायाः’’ इति हंसं सूचयति। ‘‘हे ! राजहंस ! पाण्ड्यदेशे महाराजाः सर्वे पार्वतीजानेः भक्ता आसन्‌। ते क्षत्रियाः तपःकरणेन ईश्वरं तोषयित्वा, तेन तुष्टेन हरेण प्रदत्तसर्वास्त्रसम्पदः। तेषु...

हंससन्देशः ४८

नित्यावासं वृषभमचलं सुन्दराख्यस्य विष्णोः प्रत्यासीदन्‌ सपदि विनमद्भागधेयं नतस्स्याः। यस्योत्सङ्गे बलिविजयिनस्तस्य मञ्जीरवान्तं पाथो दिव्यं पशुपतिजटास्पर्शशून्यं विभाति।। रामचन्द्रः पाण्ड्यदेशेषु वृषभाचलः, तत्र वरदस्य विष्णोः स्थानं, तस्मिन्‌ नूपुरगङ्गेति प्रसिद्धं पुण्यतीर्थं च वर्तन्ते इति हंसं सूचयति। ‘‘हे राजहंसं ! पुरो गच्छता त्वया वृषभाख्यं पर्वतः संदृश्यते। तस्मिन्‌ महाविष्णोः सुन्दरबाहुरिति ख्यातस्य दिव्यं...

हंससन्देश: – ४७

स्नस्तापीडं प्रचलदलकं व्यक्तताटङ्करत्नं मुक्ताचूर्णस्फुरिततिलकं वक्त्रमुत्तानयन्त्य:। देशे तस्मिन्‌ कुवलयदृशो जातकौतूहलास्त्वां मालादीर्घैर्मधुरविरुतं मानयिष्यन्त्यपाङ्गै:।। रामचन्द्र विपिनस्य महत: क्रमणस्यानुपदमेव पाण्ड्यान्‌ प्रविशता त्वया कुतूहलेन पश्यन्त्य: योषित: संदृश्यन्ते। ता तव स्वागतं ब्रुवन्ति इति हंसं विवृणोति। ‘‘हे राजहंस ! पाण्ड्यप्रदेशस्योपरि डयनावसरे त्वया अवश्यं तव: श्रुतिमनोहर: ध्वनि: प्रकाशनीय।: तत्रत्या युवतय तव मधुरनिनादं श्रुत्वा...

श्रीमद्भागवतस्य रासपञ्चााध्याय्या समीक्षणम्‌

श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम्‌ इति भगवत वाङ्‌मयावतार सच्चिदानन्दलक्षणं भवति। बादरायण इत्यपरनामधेय कृष्णद्वैपायन व्यास कुरुवंशपितामह एवास्य रचयिता इति सुप्रसिद्धम्‌। कलिदावानलतप्तस्य जीवस्योद्धारणाय करतलामलकवत्‌ प्राप्तमिदं श्रीमद्‌भागवतपुराणं व्यासपुत्रात्‌ शुकमुखात्‌ गलितम्‌ अमृतदद्रवसंयुतं फलं भवति। यत श्रीमद्भागवतमाहात्म्ये कलिजानां विषये एवमुक्तं ‘‘मन्दा समुन्तमतयां मन्दभाग्या ह्युपद्रुता। पाखण्डनिरता सन्तो विरक्ता सपरिग्रहा’’ इति। अत तापत्रयोन्मूलनाय...
  • वार्ता

    पाकिस्थाने उग्रवादिनां कृत्यम्‌

    इस्लामाबाद्‌उग्रवादिनां जन्मभूमौ पाकिस्थाने तेषां दुष्कृत्यानि मितिम्‌ अतीत्य प्रवर्तन्ते । ह्यः बुधवासरे चण्डा उग्रवादिनः खैबर्‌प्रान्ते विश्व विद्यानिलये...

    January 21st, 2016 | Read more