Friday, January 8th, 2010
रावणः सीताम् अपहृत्य तु अनयत् किन्तु सीता राज्ञी भवितुं न इष्टवती रावणः सीतां हनिष्यामि इति वदन् तस्यां भयं जनयितुं प्रयत्नम् अकरोत् । सामदानभेददण्डादिभिः सर्वविधैः अपि उपायैः सः तां परीक्षितवान् । किन्तु फलं शून्यम् एव ! सीता सदैव रामजपे रता । रावणः आप्तसचिवम् आहूय अनया नार्या...
Friday, January 8th, 2010
यस्य भावो हि यस्यस्यात्तस्यासौ दुरतिक्रमः । द्वीपिचर्म परिच्छन्नो वाग्दोषान्गर्दभो हतः ।। हस्तिनापुरे विलासनाम्नो रजक स्य समीपे एकः गर्दभः अवर्तत । स पटभारान्वाहं वाहं निर्बलस्यन्नुत्थातुमप्यशक्त तया पतनोन्मुखश्चावर्तत । तदा राजकः तं व्याघ्राजिनेनाच्छाद्म उर्वरायामत्यजत् । तत्रस्त्रास्सर्वेपि तं दृष्टवा व्याघ्र इति भीत्वा पलायां बभूवुः । ततस्स्वल्पकाले एव और्वारिकः...
Thursday, January 7th, 2010
मध्यरात्रिः निद्रावरोधेन जागृता गन्गाम्बिका पुत्रस्य प्रकोष्ठे दीपज्वालनं दृष्टवा वत्स ! किं इतोऽपि न शयितवान्? इति अपृच्छत् । पुत्रः अम्ब ! निद्रायां अमन्गलकरः स्वप्नः ! अत एव एतादृशाः स्वेदबिन्दवः इति अवदत् । स्वप्ने किं दृष्टम् ? इति मातुः प्रश्नः । अद्य भवत्याः सोदरी नाम, मम पितृव्या...
Wednesday, January 6th, 2010
यशस्विनं पुरुषम् उद्दिश्य जिज्ञासुः अपृच्छत् । भवतः यशसः रहस्यं किम् ? स्पष्टनिर्धारेणैव कार्यारम्भः इति उक्तं यशस्विना । तत्तु सत्यम् ! किन्तु स्पष्टं निर्धारं कथं भवान् स्वीकरोति इति जिज्ञेसोः शन्का । अनुभवानाम् आधारेण एव इति यशढसस्धवी अवदत् । अनुभवं क थं प्राप्नोति भवान्? पुनरपि प्रश्नः ।...
Saturday, December 12th, 2009
रामन्म्याग्सस्सेमहाशयः पिलिप्पैन् देशस्य अध्यक्षः आसीत् । एक दा अनुष्ठातव्यायाः जलवितरणयोजनायाः विषयेपर्यवेक्षणार्थं सः प्रास्थितवान् । गमनसमये मार्गे तेन ज्ञातं यत् दुरदृष्टवशात् जलोन्नयनाय अपेक्षितानि कानिचन यन्त्राणि विदेशात् इतोऽपि न आगतानि इति । अतः योजनायाः अनुष्ठानं भवेत् वा न वा इति संशयः उद्भूतः । महती चिन्ता प्राप्ता तेन...
Friday, December 11th, 2009
ग्रीस्देशस्य स्पार्धानगरम् । तत्र एकं मन्दिरम् । मन्दिरस्य अस्य वैशिष्ट्यमासीत् । यत् अस्य देवालयस्य देवीमूर्तौ एका कर्तरी निलम्बते स्म । नगरवासिनां विवादं अपाक र्तुं न्यायाधीशस्य आवश्यकता नासीत् । पक्षद्वयं मन्दिरस्य समीपे सरसि स्नात्वा क र्तन्यां स्वहस्तं निदधाति । यः अन्यायं करोति, तस्य हस्तः कर्तितः पृथिव्यां...
Thursday, December 10th, 2009
मम प्राणान् अपहर्तुं भवान् कथं शक्नुयात् । धिक् भवतः मूर्खताम् इति हसन् उक्तवान् संन्यासी । संन्यासिनः एतत् वचनं श्रुत्वा अलक्ष्येन्द्रः कुपितः अभवत् । खन्गम् उद्धृत्य शेषावेशेन सः उक्त वान् अहं समग्रं विश्वं जितवान् अस्मि । अस्मिन् लोके भवन्तं भस्मसात् कर्तुम् अपि अहं शक्नोमि । भवान्...
Monday, November 16th, 2009
रोगी – भो मित्र ! दिष्ट्या अहं जीवामि । तत्र पश्य, तत्र गच्छन् अस्ति किल, सः वैद्यः एव मां रक्षितवान् , मम जीवस्य रक्षकः सः । मित्रम् – तत् कथं भोः? सः अद्भुतं किमपि कृतवान् वा? रोगी – अद्भुतं नास्ति चेत् अन्यत् किं भोः? दिष्ट्या...
Saturday, November 14th, 2009
काक आह्वयते काकान् याचको न तु याचकान् । काक याचक योर्मध्ये वरं काकः न याचकः । अन्नतूर्णं पश्यति चेत् काकः वायस परिवारं आह्वयति । सर्वे मिलित्वा अन्नं भक्ष्यन्ति । वायसः सजीवि । मानवाः इव कृपणः न । सर्वेभ्यः वितीर्य अनुभोक्ति । भिक्षुकः अन्यभिक्षुकं दृष्टवा गुर्गुरायते...
Tuesday, November 10th, 2009
२ ब्रह्मकमलम् पुष्पाणां प्रपञ्चे अत्यपूर्वं पुष्पं नाम ब्रह्मकमलम् । संवत्सरे एक वारं एव ब्रह्मक मलं विक सति । पुष्पमिदं रात्रौ एव विक सति इति तु एतस्य अपूर्वं वैशिष्ट्यम् । सायं सूर्यास्तानन्तरं मुकु लं विकासं प्राप्य रात्रौ दशवादनसमये पूर्णं विकसति । मध्यरात्रपर्यन्तम् अत्यपूर्वकान्त्या सौरभेण च तत्...