सुशासनं कदा भविष्यति ?

ये अधिकारे भवन्ति, ते प्रजानां कष्टं न जानन्ति । राजानः स्वच्छन्दानुसारेण शासनं कुर्वन्ति । यथेच्छं करान्‌ विदधति । कठिनं कारागृहवासं विदधति । बन्दिभ्यः । कस्य का समस्येति न जानन्ति । अद्यतना मन्त्रिणोऽपि न भिन्नास्तेभ्यः । एतद्विषये काचन कथा । आसीत्‌ कश्चन राजा । तस्य शासने प्रजा न सन्तुष्टाः । को मम दोष इति सोऽचिन्तयत्‌ । कञ्चान यतिं स प्रार्थयत मार्गं दर्शयितुम्‌ । स किञ्चािदालोच्याब्रवीत्‌ ‘मां देशस्यास्य राजानं कुरु वर्षपर्यन्तम्‌ । मह्यं सर्वान्‌ अधिकारान्‌ प्रयच्छ । तदा तव दोषः क इति विज्ञास्यसि’ इति । भवत्विति राजा अङ्ग्यकरोत्‌ । यतिरभवद्‌ राजा । उत्तरक्षण एव ‘ त्वं मम दास’ इति राजानं दासम्‌ अकरोत्‌। पञ्चाषेषु दिनेषु राजा सेवकानां कर्म कियत्‌ कष्टम्‌ इत्यजानात्‌ । परेद्युः स स्वकार्ये भ्रंशम्‌ अकरोत्‌ । यतिराजस्ते कारागृहवासेन मासावधिकेन दण्डितवान्‌ । कारागृहे वसन्‌ राजा बन्दिनां क्लेशान्‌ अजानात्‌ । मासानन्तरं यतिराजस्तं कायस्थस्थाने न्ययोजयत्‌ । ततः तं सैनिकं व्यधात्‌ । तत अपणिकम्‌ । एवं राजा वर्षे नानारूपाणि धृत्वा प्रजानां कष्टान्यनुभूय व्यजानात्‌ । वर्षानन्तरं यतिराजस्तस्मै राज्यं पुनरार्पयत्‌ । ततः राजा प्रजाः प्रीत्या करुणया च पालयति स्म । क्रूरतां निर्दाक्षिण्यतां च पर्यत्यजत्‌ । प्रजाः सन्तुष्टाः अभवन्‌ । भयं विना ता अजीवन्‌ । राज्यं सम्पत्समृद्धं जातम्‌ । अद्यतनैर्मन्त्रिभिः नानाप्रजानां प्रजानां कष्टं कथं ज्ञायेत्‌ ?

2 Comments to “सुशासनं कदा भविष्यति ?”

  1. Harikumar Vallabhji Thaker says:

    What is solution?

  2. Rajkumar prajapati says:

    अति सुऩदर

Leave a Reply