हंससन्देशः५५

अस्मत्पूर्वैः सुरपतिहृतं द्रष्टुकामैस्तुरङ्गं
भित्वा क्षोणीमगणितबलैः सागरो वर्धितत्मा ।
सत्कारार्थं तव यदि गिरीनादिशेत्‌ गुप्तपक्षान्‌
अश्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः।।
रामचन्द्रः हनुमता प्रोक्तां कथां मनसि विचिन्त्य हंसं स्वस्य
पूर्वजैः यथा सागरः वर्धितोऽभूत्‌, सः हनूमन्तं यथा उपचरितुमयतत इति
विवृणोति। ‘‘हे ! राजहंस ! अस्मत्पूर्वजैः कथं सागरः वर्धितोऽभूत्‌ इति
कथयामि। सगरः चक्रवर्ती कोसलान्‌ पालयति स्म। सः अश्वमेघान्‌ बहून्‌
ईजे। शततमे यागे अश्वः तेन विसृष्टः आसीत्‌। तमश्वे सुरपतिः मघवा
अपाहरत्‌। अश्वस्य रक्षणे नियुक्ताः पालकाः सागराः षष्टिसहस्राणि
आसन्‌। सर्वे ते महाबलाः। तैश्च
साकं गतं बलं चागणितमासीत्‌ । अश्वं
द्रष्टुकामास्ते भूमौ सर्वत्रान्विष्य अश्वे चासंदृष्टे क्षोणीमभिन्दन्‌। अनन्तरं
भगीरथेन भुवमानीतागङ्गा तयोत्खनितभूसरण्या सागरं प्रापत्‌। एवं सागरः
वर्धितात्मा आसीत्‌। हनूमति सीतान्वेषणाय सागरस्योपरि गच्छति मम
सगरान्वयस्य साह्यं कर्तुमनाः सागरः तस्य सपर्यामुद्दिश्य मैनाकं सागरे
निमज्जनेन रक्षितात्मानं गिरिरमवोचत्‌ ‘मैनाक ! समुद्रं लङ्घयतःहनूमतः
विश्रान्त्यै आत्मानं प्रकाशय’ इति। एवमद्यापि सः मम सन्देशहराय तुभ्यं
विश्रान्ति ̈ समुद्दिश्य गुप्तपक्षं
गिरि ̈ निर्दिशेत्‌। तव श्रान्तिरिति न। तथापि
सखे ! सख्युः ! बन्धोश्च तस्य, युक्तं कर्म करिष्यतः प्रीत्यै त्वं तत्र
कञ्चाित्कालं विश्राम्ये। ततः पुरो गच्छेः’’ इति। कविः श्री वेङ्कटनाथः
‘‘त्रिकालज्ञो रामचन्द्रः भविष्यति सागरे निर्मीयमाणस्य सेतोः
सागरेणावकाशः देयः। तं प्रसाधयितुमिव बन्धुरिति निर्देशेन स
प्रीणयितव्यः’’ इति हंसं सूचयति। अपि च ‘‘सुरपतेर्भीतिमपि परित्यज्य
मैनाकाय रक्षणं कल्पितवान्‌ सागरः, अस्माकमपि बन्धुर्भवितुमर्हति’’
इति रामस्य वचोभिः हृद्यं वर्णयति।

One Comment to “हंससन्देशः५५”

  1. G.S.Vyas says:

    sir,
    With due respect I feel proud of it that you have been publishing the Sanskrit magazine SUDHARMA for a many years. I am also making my mind to contribute the subscription of your magazine after learning the sanskrit language perfectly i.e. to read and understand this great language well.

    Thank you,
    G.S.Vyas

Leave a Reply

You must be logged in to post a comment.