जलसंरक्षणं कार्यम्‌

वर्षाकालो गतः। हेमन्त आगतः। पुनः निदाघ आगमिष्यति। इदानीमेव जलदौर्लभ्यं दृश्यते। किं भविष्यति निदाघे ? वर्षे वर्षे कथैषा प्रत्यावर्तते। सर्वकारः किमपि करोतु, समस्यां परिहरतु इति जना निरीक्षन्ते। सर्वकारः सर्वत्र किं कर्तुं प्रभवति? जनैः स्वयं समस्यायाः परिहारोऽन्वेषणीयः। अस्माकं देशे वर्षाकाले देवो वर्षति। तदा प्रवाहो हानिं जनयति। बहु जलं व्यर्थं भूत्वा समुद्रं गच्छति। यदि तस्य जलस्य दशमो भागोऽपि संरक्षिष्यते, तर्हि निदाघे पेयजलस्य अभावो न बाधिष्यते। प्रतिगृहं जलसंरक्षण योजना अनुष्ठातव्या। वृष्टिजलं यथा भूमौ अन्तर्गच्छेत्‌, तथा सरांसि निर्माणीयानि। एवं कृते कूपेषु पुनर्जलं लप्स्यते। दैवस्य सर्वकारस्य वा निन्दनया प्रयोजनं नास्ति। स्वशक्त्या कष्टस्य निवारणं शक्यम्‌। अनेकेषु स्थलेषु मार्ग एष एष आश्रितः, फलं च प्राप्तम्‌। निर्जलमिति ख्याते स्थले सम्प्रति समृद्धं जलं दृश्यते। परित्यक्तायां भूमौ पुनः सस्यानि शोभन्ते। अतो निराशत्वस्य कारणं नास्ति। पर्याप्ता वृष्टिर्भवति अस्माकं देशे। वृष्टिजलं यदि व्यर्थं न करिष्यते, तर्हि चिन्तायाः कारणं नास्ति। तथा कर्तुं सर्वैः सङ्कल्पः क्रियताम्‌।

No Comments to “जलसंरक्षणं कार्यम्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.