धर्मान्तरस्वीकारविरोधः

कोल्कत्ताहिन्दुधर्मावलम्बिनां परधर्मप्रवेशः यः कारितः कार्यते वा सः सम्मतोऽस्ति चेत्‌ तर्हि परधर्मप्रविष्टानां प्राक्तनहिन्दूनां हिन्दु धर्मे पुनः प्रवेशोऽपि न्याय्य एव। धर्मान्तरस्वीकारविरोधिनः तादृशविधेरनुष्ठानं समर्थयन्तामिति राष्टि ́यस्वयंसेवकसंघस्य मुख्यः मोहनभागवतः अकथयत्‌। पुनः परधर्मस्वीकारं विरुन्धानाः सर्वान्‌ धर्मान्तरस्वीकुर्वाणान्‌ (सकृदपि स्वधर्मं त्यक्त्वा परधर्मं स्वीकुर्वाणान्‌) रुन्धन्तु इति सः स्वाभिप्रायं स्पष्टमकरोत्‌ ।

2 Comments to “धर्मान्तरस्वीकारविरोधः”

  1. हिमांशु अवस्थी says:

    राष्ट्रीय स्वयंसेवक संघस्य अध्यक्षेण समीचीनं निगदितं।

  2. Piyush says:

    Sanskrit is very excilant language

Leave a Reply