दुराशा सर्वनाशाय

आशा दुःखस्य मूलम्‌ इति भगवान्‌ बुद्ध आह। तत्रापि दुराशा न केवलं दुःखाय, अपि तु सर्वनाशाय। जनाः स्वश्रमेण धनं प्राप्तुम्‌ इच्छन्ति चेत्‌, न्याय्येन मार्गेण सुखं वाञ्छन्ति चेत्‌, तत्र न दोषः। किन्तु बहवो विना श्रमेण धनं प्राप्तुम्‌ इच्छन्ति। पन्थाः न्याय्यो वा तदितरो वा भवतु, भूरि धनं प्राप्तव्यम्‌ इति तेऽभिलषन्ति। तादृशान्‌ वञ्चायितुं सर्वत्र धूर्ताः सिद्धाः तिष्ठन्ति। एवं दुराशया जनाः स्वधनेनापि रहिता भविष्यन्ति। तदुदाहरणम्‌ अत्र दृश्यते। गदगमण्डले मरियप्पो नाम धूर्तः धनं दशगुणं कर्तुं शक्नोमीति जनेभ्यो धनं संगृह्णाति स्म। कालधनं क्षालनेन शुद्धं धनं भविष्यतीति विश्वासम्‌ उत्पाद्य कालवर्णानि पत्राणि दत्त्वा वास्तवं तेषां धनं स्वयं गृह्णाति स्म। सम्प्रति स बन्धनेन वर्तते इति श्रूयते। एवं च सर्वैरेतत्‌ स्पष्टं ज्ञातव्यम्‌। धनद्विगुणीकरणं सर्वथा असाध्यम्‌। तथा ब्रुवाणाः मिथ्या वदन्ति। ते न विश्वसनीयाः। यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम्‌ इति श्रीशङ्करभगवत्पादेशोऽनुसरणीयः। अधिकं धनं लिप्समानौः मूलधनं न नाशनीयम्‌। वञ्चाकानां मार्गाः विविधाः। तेषां मधुराणि वचनानि न श्रोतव्यानि । कुतः इति चेत्‌ परिणामे तानि विषवत्‌ कटूनि भविष्यन्ति।

One Comment to “दुराशा सर्वनाशाय”

  1. Shri Ram Sharma says:

    साधूक्तम्। भवतः लेखाः तु सर्वे अत्युतमाः वर्तंते सन्ति वा। किम् कर्तव्यम्? संस्कृतम् तु अहम् न जानामि! लिखितम् संस्कृतम् पठित्वा किंचितमात्रम् ज्ञातुम् शक्नोमि परं स्वविचारान् लिखित्वा प्रकटिकरणे समर्थः नास्मि।
    श्रद्धापूर्वकम् प्रयासरतः अस्मि। अन्ततः पारंगतः अपि भविष्यामि।

Leave a Reply

You must be logged in to post a comment.