ग्रन्थपरिचयः – संस्कृतकवितासाधना

ग्रन्थनाम : संस्कृतकवितासाधना
ग्रन्थकर्ता : डा.रामकिशोरमिश्रः
स्थलम्‌ : १९५/१४, पट्टीरामपुरम्‌
खेिकडा२५० १०१, उत्तरप्रदेशः
मूल्यम्‌ : १०० रूप्यकाणि
ग्रन्थकारस्य परिचय इत्थं दत्तो ग्रन्थे
ओश्ङ्कारमिश्रसम्भूतो होतीलालमिश्रः पिता।
देवी प्रातः स्मरणीया मातृत्वेन कलावती।
ययोरंशेन मे देहे रक्तं वहत्यहर्निशम्‌ ।
संस्कृतकवितासाधना मया ताभ्यामर्पिता ।।
भारत उत्तरप्रदेशे एटाजनपदसोरोंवासी
काव्यकथोपन्यासरचयिता शूकरक्षेत्रवासवान्‌।
विद्यावाचस्पतिपदधारी रामकिशोरमिश्र इह
कवितासंग्रहं संस्कृतकवितासाधनां विरचितवान्‌ ।।
अस्मिन्‌ संग्रहे चतुरुत्तरं शतं कविताः सन्ति। विषया बहुविधाः। सरला
भाषा । छंदः न सर्वदा सम्प्रदायानुगुणम्‌। अलङ्करा वा रसाः सन्ति
सर्वत्रेति वक्तुं न शक्यते। किन्तु मनसि समुत्पन्नाः भावनाः पद्यकाव्यरूपं
प्रापिताः। उदाहरणाय ‘स्वप्नान्‌ कथं पश्यामः’ इति कवितम्‌ अत्र
प्रस्तुयः।
जागर्तिः स्वप्नः सुषुप्तिस्तिस्तोऽवस्था भवन्ति हि ।
तत्र जागर्तिसम्बन्धे विवादोऽत्र न कश्चन ।।
जागरावस्थायामेव सर्वं कार्यं प्रवर्तते ।
सुषुप्तिर्गाढनिद्रा या कदापि नानुभूयते ।।
किन्तु स्वप्नानां विषये बहुधा संशयः स्थिरः।
कथं स्वप्नान्‌ हि पश्यामः स्वप्ना घटनासूचकाः।।
अविद्यमानमपि वस्तु स्वप्ने पश्यामो वयम्‌ ।
किं सर्वे स्वप्नं पश्यन्ति वद किमस्य कारणम्‌ ।।
अत्र कस्यापि प्रश्नस्य तृप्तिकरं नास्त्युत्तरम्‌ ।
अतश्च बहवः प्रश्नाः उत्तिष्ठन्ति हि मानसे ।
यत्कदापि नो दृष्टं न च जागर्तौ हि चिन्तितम्‌।
तन्नहि दृश्यते स्वप्ने दृष्टं स्वप्ने हि दृश्यते ।।
यथाकथञ्चािन्मनसि स्थितं स्वप्नेऽवलोक्यते ।
अतृप्तानां सर्वाशानां स्वप्ना भवन्ति पूरकाः।।
स्वं प्रबलं शत्रुं जेतुं जागरायां न शक्नुमः।
आशा तस्य विजयस्य स्वप्ने हि परिपूर्यते।।
कस्याप्युन्नतलक्ष्यस्य साधनायां स्वप्नो मतः।
रामकिशोरमिश्रेण प्रोक्तविषयो वर्णितः।। इति।
प्राचीनः क पुराण प्रसिद्धाः च्यवनचरितमित्यादयोऽत्र केचन सन्ति।
अन्ये तु आधुनिकेन जगता सम्बद्धाः शिक्षणवाणिज्यीकरणम्‌ इत्यादयो
बहवो वर्तन्ते। संस्कृतोक्तिषु पाटवं लब्धुकामैः एतानि पद्यानि
पठनीयानि । ग्रन्थकारस्य नाम कवितानाम्‌ अन्तिमे पद्ये दृश्यते ।
ग्रन्थकारः व्यासपुरस्कारं तथा उत्तरप्रदेशसंस्कृतसंस्थान
पुरस्कारं, तथा आदिकविवाल्मीकिसम्मानं च लब्धवान्‌ विशिष्टसंस्कृत
सेवायै। तस्य देववाणीसेवा अविरतं वर्धिषीष्ट, भगवान्‌
लक्ष्मीकान्तस्तस्मै शतमानदीर्घामायुः आरोग्यं च देयादिति आशास्महे।
संस्कृतरसिकाः एताः कविताः पठित्वा परमानन्दं प्राप्नुवन्तु इति
प्रार्थयामहे।

No Comments to “ग्रन्थपरिचयः – संस्कृतकवितासाधना”

add a comment.

Leave a Reply