नगरसञ्चाारवाहनानि

यथा प्रपञ्चास्य देशान्तरेषु, तथा भारतेऽपि दिने दिने नगर्यो वर्धमाना एव भवन्ति । प्रत्यहं शाखानगराणि उद्भवन्ति, नूतनवसतिगेहानि निर्मीयन्ते, गृहनिर्माणसंस्थाश्च दिवानिशं जायन्ते। निर्माणिकानां कार्यालयानां व्यापारसंस्थानां च बाहुल्यात्‌, तादधीन्ये स्थितानां सेवकानां कर्मकराणां अधिकारिणां च संख्या समेधते । एवं च कदापि पर्याप्तता नास्ति वसतिगृहाणाम्‌ । परिणाम एष सञ्जातः यत्‌ विप्रकृष्टप्रदेशेभ्यः जनाः कार्यस्थानानि प्राप्नुवन्ति। एतदर्थं, दूरस्थितविपणिविनोदस्थानादि सम्प्राप्त्यर्थं च वाहनानामवश्यकतो सर्वत्र सर्वदा जागर्ति । प्रकृते समये, तेषां वाहनानां, मुख्यतः तैलशकटानां व्यवस्था कुत्रापि न तृप्तिदायिनी । शकटनिःस्थाने स्थितानां जनानां घण्टाः व्यतियन्ति, शकटो न दृश्यते । कदाचिदागतेऽपि शकटे स्थातुमपि उपवेशनस्य प्रश्न एव नास्ति अवकाशो न भवति । दिल्ल्यां वा कोल्लकत्तायां वा कल्याणनगर्यां वा महीसुरपुरीं वा सर्वत्र एषैव कथा भवति । आगते शकटे जनानां प्रवेशः वीरानपि विस्माययति । मध्येमार्गं यन्त्रदोषात्‌ शकटानां विश्रान्तिः प्रयात¦न्‌ संकटसागरे निमज्जयति । राष्ट ́स्वीकरणे उत्साहमानाः सर्वकाराः प्रथमं व्यवस्थापने स्वां शक्तिं पर्यालोचयेयुः। अन्याथा ‘स्वयमपि न करोति, अन्यानपि कत¦र्न्‌ करणात्‌ निवारयति’ इति गाथा एतेषु सार्था भवेत्‌ । स्थितान्यपि वाहनानि न समीचीनानि । धूमवमने अद्वितीयाः शकटाः अस्माकम्‌ । एकेन महोदयेनैतेषां विषये प्रोक्तं भारतीयशकटानां सर्वे भागाः शब्दायन्ते ऋते शब्दश्ङ्गाृादिति (Every part of an Indian car makes sound, except the Horn) एवं मा भूत्‌ ।

No Comments to “नगरसञ्चाारवाहनानि”

add a comment.

Leave a Reply