गणकयन्त्रे नूतनतन्त्रज्ञानम्‌

गणकयन्त्रं नवीनैः विज्ञानिभिः आविष्कृतेषु साधनेषु साधनेषु अत्यमूल्यं बहूपयोगि च। सहस्रस्य जनानां मस्तिष्के ये विचाराः स्मृतिरूपेण स्थाप्यन्ते ते एकस्मिन्नेव गणकयन्त्रे दत्तांशरूपेण क्रूडीकर्तुं शक्यन्ते। अतः गणकयन्त्रस्य गरिमा दिने दिने एधमानः वरीवर्ति। यथा महतामपि काचित्‌ न्यूनता भवति तथैव अत्रापि काचित्‌ न्यूनता दृश्यते। यन्त्रे अत्यन्तं प्रमुखाः, सरहस्याः, बहूपयोगिनः च विषयाः स्थाप्यन्ते। यदि हठात्‌ गणकयन्त्रं कार्यात्‌ विरतं उत क्रिमिप्रवेशेन ( virus ) यन्त्रं दोषपूर्णं भवति चेत्‌ तर्हि दत्तांशाः पुनर्न लभन्ते। यद्यपि सान्द्रमुद्रिकायां ते स्थापयितुं शक्याः परं सर्वदा वेगेन कार्यकरणे तदपि दुष्करमेव। दोषममुम्‌ अपवारयितुं नूतनं तन्त्रज्ञानमधुना सिफटि टेक्नोलजीस्‌ इति संस्थया अभिवर्धितम्‌। तन्त्रज्ञाने अस्मिन्‌ ये केऽपि दत्तांशाः निगूहितुं शक्याः। पूर्वोक्तरीत्या अनिरीक्षित दोषागमे दत्तांशाः सुरक्षितरूपेण अत्रैव भवन्ति। गणकयन्त्रमेव विनष्टं चेत्‌ अन्तर्जालद्वारा विश्वस्मिन्‌ यत्र कुत्रापि ते अंशाः पुनर्ग्रहीतुं पार्यन्ते। गणकयन्त्रेण कार्यं कुर्वाणाः तन्त्रज्ञानं सहर्षं स्वागती कुर्वन्ति इति संस्था विश्वसिति।

No Comments to “गणकयन्त्रे नूतनतन्त्रज्ञानम्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.