हंससन्देशः५२

सव्यं तस्याः किंयदिव गतः श्यामताळीतमालां
त्वत्प्रायाणां तरुणवयसां चेतसो नन्दयित्रीम्‌।
वेलामब्धेर्विविधलहरीदत्तमुक्ताभिरामां
लक्ष्यस्यारात्‌ द्विगुणपुलिनां केतकीनां परागैः।।
रामचन्द्रः विश्रान्तियोग्यात्‌ ताम्रपर्णीनदीपुलिनप्रदेशात्‌ गच्छतः
तव मार्गे वामभागे एव सागरः वर्तते। त त्वं द्रक्ष्यसि इति हंसं वक्ति। ‘हे
राजहंस! प्रदेशादस्मादेव समुद्रः तव दृग्गोचरो भविष्यति। अत्यन्तसमीपे
एव वर्तमानस्य समुद्रस्य मार्गे केतकीवृक्षाः तमालवृक्षाश्च असंख्याकाः
वर्तन्ते। अतीव निबिडाः ते वृक्षाः सान्द्रच्छायाः, अत एव श्यामाः
शोभन्ते। त्वत्सदृशानां तरुणवयसां पक्षिणां ते वृक्षाः मनसः
सन्तोषकारिणः यतस्तत्र प्रकृतिः हितकरी सन्निवेशः हर्षजनकश्च। तत्र
समुद्रस्य विविधाः वीचयः मौक्तिकानि बहुविधानि तीरं प्रापयन्ति। तानि
मौक्तिकानि अतीवमनोहराणि च । तत्र समुद्रस्य कूले पुलिनानि स्वभावत
एव तापापनोदनानि। तीररुहाणां केतकी वृक्षाणां पुष्परजोभिः मिलितानि
च भूत्वा तानि पुलिनानि चेतसः उल्लासं वर्धयन्ति। तथाविधां
नयनमनोहरां सागरस्य वेलां गच्छतः तव मार्गस्य वामभागे
अवलोकयिष्यसि। कस्यापि मनः ततः अन्यत्र गन्तुं नापेक्षते। तत्रैव
स्थित्वा तां वेलां दर्शं दर्शं कालस्य व्ययमपि न विजानासि। कालस्य
व्ययं परिहृत्य ततस्त्वं गच्छेः’ इति। कविः श्री वेङ्कटनाथः सागरस्य वेला
संप्राप्ता इति वर्णनावसरे तत्रत्यानां नयनानन्ददायिनां
समस्तपक्षिसमूहस्याश्रयप्रदात¦णां केतकीतमालवृक्षाणां वर्णनेन कुतूहलं
वाचकेषुवर्धयितुमीप्सति। अपि च तां सागरस्य वेलां ललनां भावयित्वा
श्यामतालीतमाला नीलवेणीयुता मनः प्रसादयित्री धृतमुक्ताभिरामा,
इत्यादिवर्णनेन रसिकजनचेतांसि आह्लादयति।

No Comments to “हंससन्देशः५२”

add a comment.

Leave a Reply

You must be logged in to post a comment.