दयनीयायां स्थितौ कांग्रेस्‌पक्षः

अस्य वर्षस्यादौ कांग्रेस्‌पक्षो भारतवर्षं शास्ति स्म। केषुचिद्‌ राज्येषु च तस्य प्राबल्यम्‌ आसीत्‌। सम्प्रति लोकसभायां तस्य प्रबलविरोधिपक्षत्वम्‌ अपि नास्ति। राज्येषु च क्वचिदेव तस्य शासनं प्रवर्तते। कर्णाटकराज्ये तस्य प्राबल्यं विद्यते। किन्त्वन्यत्र तस्य दौर्बल्यं दिने दिने वर्धमानं दृश्यते। अद्य प्रकट्यमानेषु निर्वाचनफलितेषु झरखण्डे कांग्रेस्‌पक्षस्य द्वितीयमपि स्थानं नास्ति। जम्मुकाश्मीरराज्येऽपि तत्‌ चतुर्थे स्थाने क्षिप्तम्‌। तत्र कारणं किमिति सर्वैरालोचनीयम्‌। नायकानां दोषस्तत्र कारणं वा ? पक्षसंघटनाया विश्लथत्वं वा पक्षस्य नीतीनां जनविरुद्धत्वं वा ? कांग्रेस्‌पक्षे वंशपारम्पर्येण नायकत्वं निश्चीयते, न तु प्रजातन्त्रानुसारेण । नेहरूवंशसंजाताः, तत्सम्बन्धितो वा तं शासति। एवम्‌ असमर्था अपि केवलजन्मकारणेन नायकपीठे उपविशन्ति। अयं मम जन्मसिद्धोऽधिकार इति भावयन्‌ युवा नायको न देशहितं साधयितुं प्रभवति। अत एव जना न तस्मै मतानि दास्यन्ति। पक्षसंघटनायाम्‌ अपि सामर्थ्याय प्राधान्यम्‌ न दीयते। वन्दिमागधाः एव स्थानं लभन्ते। एषा परिस्थितिः परिवर्तेत । देशस्य प्राचीनतमः पक्षः पुनः स्वस्थानं लब्धुं प्रयत्नं कुर्यात्‌। तत्र प्रजातन्त्रविधानम्‌ अनुसरणीयम्‌ ।

No Comments to “दयनीयायां स्थितौ कांग्रेस्‌पक्षः”

add a comment.

Leave a Reply

You must be logged in to post a comment.