संयुक्तसर्वकारोऽनिवार्यः?

श्रीनगरम्‌जम्मुकाश्मीरराज्यस्य विधानसभानिर्वाचने न किमपि दलं स्पष्टं बहुमतम्‌ अलभत। अतोऽत्र संयुक्त सर्वकारोऽनिवार्यः। पिडिपिदलं भाजपदलं च संयुज्य यदि सर्वकारं रचयिष्यतः, तर्हि स्थिरं शासनं भविष्यति। पिडिपि दलाय वयं समर्थनां दास्याम इति कांग्रेस्‌दलमपि वदति। केन दलेन मैत्री कांग्रेस्‌दलमपि वदति। केन दलेन मैत्री करणीयेति पिडिपि नायकाः निर्णयं करिष्यन्ति। झारखण्डराज्येऽपि केनापि पक्षेण स्पष्टं बहुमतं न लब्धम्‌। तत्रापि संयुक्तसर्वकारः अनिवार्यः। भारतीयजनतापक्षस्य प्राधान्यं स्पष्टम्‌। तेनैव अधिकानि स्थानानि विजितानि । किन्तु तानि सर्वकाररचनायै न पर्याप्तानि। प्रायो भारतीयजनतापक्षः जेविएम्‌ दलेन सह संयुज्य सर्वकारं रचयिष्यति। उभयोरपि राज्ययोः अस्माकं पक्ष एव सर्वकारं रचयिष्यति इति भारतीयजनतापक्षस्य नेता केन्द्र गृहमन्त्री श्रीमान्‌ राजनाथ सिंहोऽब्रवीत्‌। सर्वत्र भारतीय जनतापक्षस्य कार्यकाराः सम्भ्रमेण आनन्देन च मधुरखाद्यानि खादित्वा, स्फोटकानि स्फोटयित्वा हर्षेण नृत्यम्‌ अकुर्वन्‌।

No Comments to “संयुक्तसर्वकारोऽनिवार्यः?”

add a comment.

Leave a Reply