हंससन्देशः५१

तस्यास्स्वैरं सरसिजमुखास्वादसंप्रीतचेताः
शीतीभूतस्तरळलहरीबाहुसंश्लेषणेन ।
अध्यासीनः पुलिनमनिलैः वीजितश्चन्दनाद्रेः
श्रान्ति ̈ शान्ति ̈ गमयतु भवान्‌ सागरं लङ्घयिष्यन्‌ ।।
रामचन्द्रः ताम्रपर्णीनदीपुलिनेषु कञ्चाित्कालं विश्रम्य ततः समुद्रं
त्वं लङ्घयेः इति संसूच्य हंसं तत्रत्यां परिस्थितिं वर्णयति। ‘हे राजहंस!
भविष्यति त्वया सुमहत्‌ कार्यं करिष्यमाणं वर्तते। समुद्रः लङ्घयितव्यः।
अद्य त्वं बहुदूरं क्रमितवानसि। विश्रातिं विना समुद्रतरणं त्वया न
चिन्तनीयम्‌। एष एव विश्रान्त्यै समुचितः प्रदेशः। यतः अत्र अस्याः
नद्याः परिसरेषु तव स्वच्छन्दं विहर्तुमवकाशः वर्तते। अत्रत्यसरसिज
मुखास्वादनेनानन्दपूर्णहृदयो भव। मन्दमारुतवीजनेन चञ्चालाः
नदीबाहव इति ख्याता वीचयः त्वामत्राश्लिष्यन्ति।
तथाविधमन्दमारुतस्यानुभवेन प्रसन्नचित्तो भविष्यसि। तत्र पुलिनेषु द्वीपेषु
उपविष्टः त्वं समीपस्थचन्दनाद्रेः मरुद्भिः वीजितवान्‌ भविष्यसि। अनेन
एतादृशदूरक्रमणेन समुत्पन्ना श्रान्तिः शान्तिमेष्यति। तत्र विश्रम्य समुद्र
लंघयितुं प्रयत्नं कुरुष्व’ इति। कविः श्री वेङ्कटनाथः श्लोकस्यास्य
रचनावसरे रामचन्द्रः लङ्कामेव प्राप्तवान्‌ स्यादिति भावितवानिति ज्ञायते।
ताम्रपर्णीतीरेषु हंसस्य विश्रान्ति ̈ सूचयन्‌ तं ‘सरसिजमिव मुखस्या
स्वादनेन चेतः प्रीणाति। वीचीरूपैः नद्याः बाहुभिः
शीतलाश्लेषमनुभवसि। चन्द्रनाद्रेः सुरभियुतमरुद्भिः परिचरितः
भविष्यसी’ त्युक्तिभिः रामचन्द्रः स्वयमेव प्राकृता इव
सीतासामीप्यमलभत वा इति हृर्द्‌ीय वर्णयति। अवकाशं सदुपयुज्य
प्रकारान्तरेण शृङ्गाररसं हितं मित च निरूपयति। अपि च समुद्रस्य
दर्शनेनैव भीतस्सन्‌ प्रतिज्ञा तस्य सन्देशप्रापणस्य कर्मणः नोत्सर्पेत्‌ इति
भावनया तस्य प्रोत्साहनार्थं सखायं हंसं भवानिति सम्बोधनेन
स्वाभिमुखं करोति इति मनोहरं विवृणोति।

No Comments to “हंससन्देशः५१”

add a comment.

Leave a Reply

You must be logged in to post a comment.