यत्र धूमस्तत्राग्निः

दण्डकारण्ये नर्मदानद्यास्तीरे कश्चन ऋष्याश्रमः। तत्र उतथ्यनामा महर्षिः अवर्तत। सः उग्रतपाः, सत्यवाक्‌, दयापरश्च। एकदा सःनर्मदां गत्वा, स्नानाह्निकादीनि कर्तव्यानि पूरयित्वा, आश्रममागत्य ध्यानपरायणः निमीलितलोचनः उपविशति स्म। तस्य यज्ञवाट्यां ऋत्विजः उच्चैः मंत्रान्‌ घोषयन्तःजुह्नति स्म । तदा उतथ्यस्य महर्षेः ध्यानस्य भंगं कुर्वन्‌कश्चन एणःधावन्‌ आगत्य तं शरणं जगाम, यज्ञवाटीं च प्रविवेश। प्रविशन्तं हरिणं उतथ्यः ददर्श। तस्मिन्नेव क्षणे हरिणमनुसृत्य कश्चन घरोः व्याघ्रः आजगामः। महर्षिं दृष्ट‰ा स भीतः, विनीतवत्‌ पप्रच्छ च । ‘‘महर्षे, मम आहारभूतः मृगाः त्वया दृष्टः किम्‌ । यदि तथा सत्यवाक्‌ भवान्‌ मम कथयतु, तत्‌ कुत्र गत इति’’। सत्यप्रेमी सः किमपि नावदत्‌ । व्याघ्रस्तु पुनः पुनः पप्रच्छ । किंचिदालोच्य सः प्रत्युत्तरमदात्‌ ‘‘व्याघ्र, किमिति त्वा वच्मि । नेत्रे पश्यतः ते वक्तुं न शक्नुतः। जिह्वां वदति । सा न पश्यति ते वक्तुं न शक्नुतः। जिह्वां वदति । सा न पश्यति। त्वया जिह्वा पृच्छ्यते यस्याः दृष्टियोग्यता न। ये अपश्यतां ते न वदतः’’इति। तदुत्तरं श्रुत्वा व्याघ्रः न्यवर्तत। हरिणश्च रक्षितः। महात्मनः तार्किकी एषा प्रतिभा पसिद्धस्य तर्कशास्त्रस्य उद्गमे निदानमभूत्‌ ।

2 Comments to “यत्र धूमस्तत्राग्निः”

  1. latha says:

    atyanta rochakakathaa.
    maharsheH tarkabadhdhauttaram shlaaghaneeyam.
    dhanyavaadaH

  2. Ramesh Sangamnerkar says:

    उत्तमा कथा।

Leave a Reply