स्वधर्मे पुनः प्रवेशः

वल्सद्‌ – गुजरातराज्यस्य वल्सद्‌ प्रदेशे द्विशताधिकाः जनाः सनातनधर्मं स्वेच्छया प्राविशन्‌। एते जनाःपूर्वं क्रैस्तधर्मं प्रविष्टा आसन्‌। सम्प्रति ते हिन्दुधर्मम्‌ अनुसर्तुम्‌ इच्छन्तः स्वधर्मे प्रवेशम्‌ अलभन्त। विश्वहिन्दुपरिषद्‌ एतदर्थं होमादिव्यवस्थाम्‌ अकरोत्‌। वेदमन्त्राणां पठनं पुरोहितैः कृतम्‌। अस्मिन्‌ धार्मिके समारम्भे सहस्रत्रयाधिकाः वीक्षकाः जनाः उपस्थिताः आसन्‌। भानुवासरे होमादिविधयः सम्पन्नाः। एवं केरलराज्येअळप्पुझा कोलम्प्रदेशयोः पञ्चात्रिंशज्जनाः हिन्दुधर्मं प्राविशन्‌। अष्टानां कुटुम्बानां सदस्याः (पुमांसः स्त्रियः शिशवश्च) परधर्मं परित्यज्य स्वधर्मम्‌ आलिङ्गन्‌ इति विश्वहिन्दुपरिषदः स्थलीया नायका अब्रुवन्‌। विश्वहिन्दुपरिषदः कार्यदर्शी राजशेखरःअत्राब्रवीत्‌ ‘‘मतान्तरं कर्तुं वयं न प्रेरणां दत्तवन्तः। स्वयं केचनागत्य हिन्दुमतप्रवेशाभिलाषं प्राकटयन्‌। अतः होमादिव्यवस्था कृतेति । शीघ्रमेव अधिका जना हिन्दुमतं प्रवेक्ष्यन्ति। तत्र बहूनाम्‌ इच्छा वर्चते इति च सोऽब्रवीत्‌। मतपरिवर्तने बलात्कारस्य लेशोऽपि नास्ति, न च किमपि आमिषं दर्शितम्‌ इति विश्वहिन्दुपरिषदो नायका अब्रुवन्‌।

One Comment to “स्वधर्मे पुनः प्रवेशः”

Leave a Reply

You must be logged in to post a comment.