जनतापरिवारस्यैकता

जनतापरिवारो नानाकारणैः पूर्वं शतधा भिन्नोऽभूत्‌। जात्यतीत जनतादनलं संयुक्तजनतादलं समाजवादिदलं राष्टि ́यजनतादलम्‌ इत्यादयः पक्षा अद्य तत्र तत्र विद्यन्ते। तेषां सर्वेषाम्‌ एकतायै प्रयत्न आरब्धः। एकतां साधयितुं परस्परवैरिणोऽपि एकत्र मिलिताः। पूर्वं ते अन्योन्यनिन्दायां प्रवृत्ताः। किन्तु भारतीयजनतापक्षं विरोद्धुं तेषां समवायोः जातः। काग्रेस्‌पक्षं भारतीयजनतापक्षं च परित्यज्यान्ये सर्वे तृतीयरङ्गं रचयेयुः इति काचन चिन्ता । किन्तु तत्त्वरहितं तादृशम्‌ एकत्वं शाश्वतं न भवति। नायकानां प्रतिष्ठा जनतापक्षस्य विभागे कारणम्‌ अभूत्‌। इदानीम्‌ अपि तेषां धोरणी तथैव वर्तते। भारतीयजनतापक्षस्य नेतारस्तु सर्वत्र स्वपक्षस्य प्रभुत्वं वाञ्छन्ति। प्रजातन्त्रे कस्यापि एकस्य पक्षस्य सर्वस्वाम्यं मा भूत्‌। बलवान्‌ विरोधी पक्षोऽपि अपेक्षित एव।अन्यथा सर्वाधिकारशासनस्य प्रवृटिः स्यात्‌। अतो जनतापरिवारस्य नायकाः व्यक्तिप्रतिष्ठां कुटुम्बप्राधान्यं च पार्श्वे निधाय देशस्य हिताय एकतां साधयेयुः। तदा जनानां तेषु विश्वासः समुत्पद्येत। मम पत्नीं तदा जनानां तेषु विश्वासः समुत्पद्येत। म पत्नीं मुख्यमन्त्रिस्थाने उपवेशयानि, मम पुत्रमेव दलाध्यक्षं करोमि इति स्वार्थभावना दूरीकरणीया। अन्यथा दलपरिवारस्य प्रयत्नः प्रहसनायते।

No Comments to “जनतापरिवारस्यैकता”

add a comment.

Leave a Reply

You must be logged in to post a comment.