उन्नतन्यायालयः – २

मन्त्रीकिञ्चाित्कालं विचिन्त्य ‘‘प्रभो, एकः उपायः अस्ति। युवकेन राज्ञ्याः नागसेनस्य च क्षमा प्रार्थनीया। प्राणभिक्षा च स्वीकरणीया। तदनन्तरं तस्मै कानिचन दिनानि कारागृहदण्डनं दत्तं चेत्‌ समाप्तम्‌’’ इति उपायं सूचितवान्‌। तथैव राजा मन्त्री च कारागृहं गतवन्तौ। मन्त्री युवकं ‘‘प्रवृत्तं तु प्रवृत्तम्‌। यदि भवतः दण्डनं न भवेत्‌ तर्हि भवता राज्ञ्याः, नागसेनस्य च क्षमा प्रार्थनीया’’ इति उक्तवान्‌। तत्‌ श्रुत्वा युवकः मन्दहासं प्रदर्शयन्‌ ‘‘किञ्चाित्‌कालानन्तरम्‌ अहं महाराजस्य निर्णयं विरुद्ध्य उन्नतन्यायास्थानं मम व्यवहारं नेष्यामि। भवन्तः मां दण्डयन्तु नाम। यस्य कस्यामि क्षमां न प्रार्थयामि अहम्‌। प्राणाभिक्षा अपि मास्तु भिक्षया न आनीताः मम प्राणाः।’’ इति उक्तवान्‌। तत्‌ वचनं श्रुत्वा राजा कोपेन ‘‘अस्मिन्‌ राज्ये राजापेक्षया उन्नतन्यायाधिकारी कोऽपि अस्ति वा? मरणं गच्छन्तं भवन्तं करुणया विमोचयितुम्‌ आगतवान्‌। मम पुरतः उन्नतन्यायास्थानम् इति वदति वा? कियान्‌ गर्वः भवतः?’’ इति पृष्टवान्‌। महाराजस्य वचनेन किञ्चािदपि अविचलितः युवकः ‘‘राजा नाम भूमौ भगवतः प्रतिनिधिः इति ज्येष्ठाः वदन्ति। स्वार्थस्य लेपनं विना पक्षपातं विना च न्यायप्रदर्शनं महाराजस्य कर्तव्यम्‌। यदि तथा कर्तुं सः न शक्नोति, तर्हि तस्य निर्णयं पुनः परिशीलयितुम्‌ उत्तमं निर्णयं उद्‌घोषयितुं च सः भगवान्‌ एकः एव शक्नोति। भवताम्‌ निर्णयं विरुद्ध्य मया तस्मिन्‌ उन्नतन्यायास्थाने व्यवहारः नीयते। भवन्तः निश्चिन्ततया भवताम्‌ निर्णयानुगुणं मां दण्डयन्तु’’ इति उक्तवान्‌। युवकस्य वचुनं शृण्वतः महाराजस्य मस्तिष्के ज्ञानोदयः अभवत्‌। न्यायापालमहत्वस्य पवित्रतां सः ज्ञातवान्‌। राजा लीलाधरः तत्क्षणमेव कारागृहात्‌ युवकस्य विमोचनं कृतवान्‌। प्रातः कालसमये राजा परिवर्तितः आसीत्‌। तदारभ्य सः राज्ञीविषयकं मोहं नियन्त्रणे स्थापयित्वा , नागसेनस्य गर्वः यथा यथा न्यूनः भवेत्‌ तथा कृतवान्‌। प्रजाभ्यः उत्तमन्यायः यथा लभ्येत तथा जागरूकया राज्यं पालयन्‌ ‘‘धर्मप्रभुः’’ इति नाम्ना प्रसिद्धा जातः च।

No Comments to “उन्नतन्यायालयः – २”

add a comment.

Leave a Reply