रुग्णः बधिरश्च

अयं कश्चन बधिरः । एकदा सः रोगिणां बन्धुं द्रष्टुं तस्य गृहं गतवान्‌। रुग्णेन सह कथं सम्भाषणं करणीयमिति अयं महाशयः पूर्वमेव सिद्धतां कृतवानासीत्‌ ’ ‘‘मया किं प्रष्टव्यं ? तेन बन्धुना किमिति उत्तरं भविष्यति’’ इति मनस्येव प्रश्नानां आवलिं रचितवानासीत्‌ । रोगिणः शय्यासमीपे उपविश्य अयं बधिरः सम्भाषणं कर्तुं आरभत ।‘‘रोगः कथं अस्ति?’’ रुग्णः ‘‘अन्तिमदिनं समीपे भविष्यतीतिमन्ये ! चिन्ताजनकम्‌’’ इति अवदत्‌ । बधिरः ‘‘भवतु ! सन्तोषः तथैव भवतु‘‘ इत्यवदत्‌ । वैद्यः कः इति बधिरस्य प्रश्नः । क्रुद्धः रुग्णः ‘‘यमः एव वैद्यः इत्यवदत्‌ । ‘‘सः एव श्रेष्ठः वैद्यः । कः आहारः इति अपृच्छत्‌ ‘‘मृत्तिका एव आहारः ’’ इति रोगी अवदत्‌ । ‘‘युक्तं ! समीचीनं ! सैव युक्ता ! शीघ्रं गुणमुखः भविष्यति’’ इति बधिरः वदति चेत्‌ रोगी ‘‘स्वास्थ्यं कुतः ? मरणमेव शरणम्‌’’ इति अवदत्‌ । ‘‘भवतु ! भवतु तथैव भवतु । चिन्तामास्तु । भगवान्‌ तथैव करोतु ’’ इति अवदत्‌ । तस्य वचनं श्रुत्वा रुग्णस्य स्थितिः कीदृशी जाता इति चिन्तयन्तु भवन्तः ।

One Comment to “रुग्णः बधिरश्च”

  1. krishna gopal mishra says:

    samyak samvadabhave kah bhavati ityatra varnitah

Leave a Reply

You must be logged in to post a comment.