हंससन्देशः ५०

मुक्ताजालैर्जनितपुलिनां शुक्तिसन्तानमुक्तैः
तारापूर्णां दिवमिव ततस्ताम्रपर्णिं भजेथाः।
प्रत्यासत्या नियतविशदं पीतसिन्धोर्महर्षेः
पानीयं ते परिणमयिता तत्र मुक्तामयत्वम्‌।।
रामचन्द्रः हंसं वक्ष्यति ‘पाण्ड्यदेशात्पुरः गच्छता त्वया
ताम्रपर्णी नदी संदृश्यते। अपि च आरादेव सागरः परिदृश्यते’ इति। ‘हे
राजहंस ! संक्रान्तेषु पाण्ड्येषु त्वं ताम्रपणर्ीं नदीं पश्यसि। समुद्रस्यातीव
सामीप्यात्‌ ताम्रपर्ण्यां नद्यां शुक्तयः असंख्याकाः। शुक्तयः प्रायः
पुनिलप्रदेशे एव समुत्पद्यन्ते। अनेन मौक्तिकनिवहैः संजातानि
पुलिनराशिभिरुपकल्पितानि द्वीपानि बहूनि त्वया संदृश्यन्ते। यथा रात्रौ
तारागणैः शोभितः आकाशः हृदुल्लासकरः तथैव तत्र तत्र पप्रीकाशमानैः
तारासदृशैः मौक्तिकैः सर्वत्र व्याप्तपुलिनयुक्तां ताम्रपणर्ीं दृष्ट‰ा तत्र त्वं
स्नायाः। महर्षिः अगस्त्यः सर्वकष्टनिवारकः, सर्वरोगनिवारकश्चेति
प्रसिद्धः। आ सूर्यं वर्धितं विंध्यं शैलं समीक्ष्य देवाः अगस्त्य
शरणमगमन्‌। तेषां प्रार्थनामादृत्य अगस्त्यः दक्षिणां दिशमगमत्‌।
मध्येमार्गं नमन्तं छात्रं विन्ध्यं आपुनरागमनावधि तथैव वर्तेथाः इत्युक्त्वा
पूज्यः स महर्षिः दिशं तां भेजे। एषः अगस्त्यमहर्षिः सागरं चुलुकगतं
कृत्वा अपिबत्‌ इति च प्रसिद्धिः। आपः चतुरब्धिपा सामर्थ्ययुतस्य महर्षेः
सन्निधाने पानार्हतां भयेनाप्नुवन्ति इति प्रकटयितुमिव अस्याः ताम्रपर्ण्याः
नद्याः जलमतीव निर्मलं, स्वादु च। तस्य जलस्य पानेन त्वं मुक्तामयश्च
भविष्यसि। मुक्तामयकरणसमर्था ताम्रपर्णी सागरस्य सामीप्यात्‌
मुक्तामयी समभवत्‌। तस्यां पवित्रतमायां नद्यां स्नात्वा मन उल्लासय’
इति। कविः श्री वेङ्कटनाथः प्रकारान्तरेणहंसं समुद्रस्य समीपं त्वं
गतवानसि। समीपे समुद्रस्य प्रवहन्त्याः नद्याः ताम्रपर्ण्याः सलिलं
स्वादुतमं, सर्वरोगनिवारकशक्तियुतं च वर्तते। नदीपुलिनेषु शुक्तिसञ्चाय
निरीक्षणेन मनसि जलं नैर्मल्ययुतं
सत्‌ अवश्यं भजनीयमिति भावः
समुत्पद्यत इति च हृद्यं वर्णयति।

No Comments to “हंससन्देशः ५०”

add a comment.

Leave a Reply