पाकिस्थानम्‌ उग्रान्‌ दमयति किम्‌?

पाकिस्थानं स्वयम्‌ उग्रवादिनो मतान्धान्‌ पूर्वम्‌ अपोषयत्‌। भारतवर्षं द्वेषेण पश्यत्‌ तद्राष्टं काश्मीरप्रदेशे अशान्ति ̈ प्रसारयितुं तान्‌ प्रयोजयति स्म। मुम्बयीनगरे तदीयैहिंसाकारिभिः महान्‌ क्षोभो जनितः बहवो मुग्धा जनाः मारिताश्च। सम्प्रति तदनुयायिनः तालिबान्‌ हिंसाकारिणः स्वदेशेऽपि प्रतापं दर्शयितुं सिद्धाः। शालां प्रविश्य बालान्‌ अपि ते न्यघ्नन्‌। स्वदोषं ज्ञात्वा पाकिस्थानं हिंसापरान्‌ तालिबानीयान्‌ दण्डयिष्यति न वेति न जानीमः। प्रधान मन्त्री नवाज्‌शरीफः धैर्यवानिव वचनानि प्रोक्तवान्‌। किन्तु कार्यकरणे स समर्थो भविष्यति किमिति द्रष्टव्यम्‌। पाकिस्थानस्य सेना तालिबानीयानां स्थलानि नाशयितुं वैमानिकयुद्धतन्त्रम्‌ आश्रयतीति श्रूयते। गुरुवारे (१८१२१४) विमानाः आक्रमणं कृत्वा सप्तपञ्चााशत्संख्यान्‌ तालिबानीयान्‌ यमपत्तनं प्रैषयन्निति वार्ता पाकिस्थानेन प्रसारिता। तस्याः सत्यत्वं परीक्षणीयम्‌ । मरणेन दण्डिताः उग्राः पाकिस्थानस्य कारागृहेषु वर्तन्ते। तेषाम्‌ अपि उद्‌बन्धनेन मृत्युवशीकरणाय सिद्धता कृतेति पाकिस्थानस्य सर्वकारो घोषितवान्‌। तथा भवतु इति तत्रत्यानां जनानाम्‌ आशा। सर्वकारो धैर्येण अनुष्ठानं करिष्यति न वेति द्रष्टव्यम्‌। भारतवर्षसर्वकारेणापि पाठः शिक्षणीयः। मावोवादिनां नक्सलीयानां दमने धैर्येण प्रवर्तितव्यम्‌। तद्विषये दया न शोभते। ते कमपि महापराधं कुर्वन्तु, ततः निधास्यामः इति प्रतिपालनं सर्वथा न युज्यते।

No Comments to “पाकिस्थानम्‌ उग्रान्‌ दमयति किम्‌?”

add a comment.

Leave a Reply

You must be logged in to post a comment.