सिड्‌नीनगरे भयोत्पादकस्य दुस्साहसम्‌

सिड्‌नीआस्ट ́ेलियादेशस्य सिड्‌नी नगरे ‘‘सिड्‌नीलिण्ट्‌ केफे’’ इत्याख्ये उपहारगृहे कर्मकराः स्वकर्मरता आसन्‌। तत्रासन्‌ कतिपयग्राहकाः। तत्रान्तरे प्रविष्टः एकः भयोत्पादकः। तेन बन्धिताः तत्रत्याः त्रिंशदधिकाः ग्राहकाः। सः तेभ्यः गुलिप्रक्षेपणीं दर्शयित्वा बहुधा अभापयत। उग्रस्याक्रमणो दन्तं श्रुत्वा सिड्‌नीनगरस्य आरक्षकाः तं निरुध्य अन्ततः तत्रैव अघ्नन्‌। उग्रेण बन्धितेष्वकः भारतीय आसीत्‌। यः तत्र इन्फोसिस्‌संस्थायाः उद्योगी आसीदिति कथ्यते। इस्लांमूलभूत वादी सः उग्रः ४९ वर्षवयाः, शेख्‌ मन्‌ हरोन्‌ मोनिस्‌ नामकः शेख्‌थसमुदायसम्बद्धः इस्लां धर्मबोधकश्च आसीदिति कथ्यते। सः उग्रः १९९६तमे वर्षे इरान्‌ देशात्‌ शरणार्थी सन्‌ आस्ट ́ेलिया देशमागतवान्‌ आसीत्‌। तस्याक्रमणेन बन्धितेषु द्वित्राः हताः इत्यपि श्रूयते। किन्तु भारतीयबन्धितः सुरक्षितस्ततः पलायितः।

No Comments to “सिड्‌नीनगरे भयोत्पादकस्य दुस्साहसम्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.