भारतदेशस्य मुख्यसमस्या जनसंख्या

भारतदेशेऽधुना जना अत्यधिकाः। प्रतिवर्षं, प्रतिदिनं जनसंख्या वर्धते। प्रपञ्चादृष्ट्या अत्र जनसंमर्दो महान्‌। अन्यत्र यस्मिन्‌ स्थले एको वसति, तस्मिन्‌, अथवा तावति स्थले अष्टौ भारतीया वसन्ति। अत एवात्र आहारस्य जलस्य वसतेश्च दौर्लभ्यम्‌। उद्योगाभावस्यापीदमेव कारणम्‌। यदि एषैव परिस्थितिरनुवर्तिष्यते, तर्हि महान्‌ अनर्थो भविष्यति। इदानीमेव जागरूकता आश्रयणीया। कापि स्त्री द्वाभ्याम्‌ अधिकान्‌ शिशून्‌ न प्रसूयेत। तदा जनसंख्या स्थिरा भविष्यति। चीनादयो देशा एतत्‌ साधितवन्तः। एवं साधयितुं निर्बन्धः कोऽपि न साध्यः, न च साधुः। स्त्रीणां विद्याभ्यासो यदि प्रसरिष्यते यदि च कुटुम्बानां वित्तस्थितिः उत्तमा भविष्यति, तर्हि जनसंख्याया मितिः स्वयं सेत्स्यतीति समाज विज्ञानविदो वदन्ति। सद्यः स्त्रीविद्याभ्यासस्तु समर्पको वर्तते। एवं यदि सर्वत्रार्थिकी स्थितिः उत्तमा करिष्यते, तर्हि प्रायशः जनसंख्यानियन्त्रणं सिद्धं भविष्यति। यदि केचन एकम्‌ एव शिशुं पालयितुं वाञ्छन्ति, तर्हि तदपि सम्यक्‌। गर्भधारणनिरोधस्य औषधानि सम्प्रति सुलभानि। वैद्यानां सूचनाम्‌ अनुसृत्य दम्पती गर्भधारणं निवारयितुं शक्नुतः। समग्रदेशस्य हिताय जनैस्त्यागः कर्तव्य एव। मानवानां संख्याया नियन्त्रणं विना इतरेषां प्राणिनां निवासाय स्थलं कल्पयितुं न शक्यम्‌ इत्यपि मतिमद्भिः स्मर्तव्यम्‌ ।

No Comments to “भारतदेशस्य मुख्यसमस्या जनसंख्या”

add a comment.

Leave a Reply

You must be logged in to post a comment.