चर्चस्फोटप्रकरणे २२ अपराधिभ्यः जीवावधिशिक्षाप्रदानम्‌

बेङ्गळूरुज्येष्ठन्यायमूर्ति एन्‌.कुमार्‌ न्यायधीशारत्नकला इति न्यायधीश द्वययुत विभागीय कर्णाटकराज्य न्यायालयन्यापीठं २००८वर्षस्य नवम्बर २१ दिनाङ्के विशेषन्यायालय न्यायाधीशपीठेन प्रदत्तां शिक्षाम्‌ उद्घाटितवत्‌। बेङ्गळूरुहुब्बळ्ळि कलबुर्गि चर्च्‌मन्दिरेषु १४ वर्षेभ्यः प्राक्‌ सरणिगुळिकास्त्राणि प्रयुज्य घातुकाः चर्च्‌भवनानि नाशितवन्तः। अपराधिनः बन्धिताः। विचाररा प्रचलिता। न्यायधीशनिर्णयः समागतः। ११ जनाः मरणदण्डन शिक्षया दण्डिताः आसन्‌। अधुना विशेषन्यायपीठन्यायाधीशौ मरण दण्डनशिक्षामपाकृत्य ११ घातुकेभ्यः चीववधिशिक्षां दत्तवन्तौ। अपराधिभिः आरक्षकैः प्रदत्तानि पुनर्परिशीलनाभ्यर्थनपत्राणि संदृश्य सर्वान्‌ विचार्य वादिप्रतिवादिनः वादान्‌ श्रुत्वा साक्षिणः परिशील्य एतौ न्यायाधीशौ निर्णयं प्रादुः। प्रकरणस्य सर्वान्‌ अंशान्‌ आवां अपश्याव। विचारणासमये प्रदत्तानि उपलभ्यानि समर्थकपत्राणि परिशीलितानि। पूर्वन्यायालय न्यायधीशनिर्णयः सुष्ठु वर्तते। तत्र परिणामः न भवेदिति न्यायपीठ न्यायधीशौ अवोचताम्‌।

No Comments to “चर्चस्फोटप्रकरणे २२ अपराधिभ्यः जीवावधिशिक्षाप्रदानम्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.