उन्नतन्यायालयः

पूर्वं लीलाधरनामकः राजा चम्पकदेशं पालयति स्म। तस्य
पत्न्याः नाम नन्दिनीदेवी। महाराजस्य तु प्राणापेक्षया अधिकं प्रीतिः
तस्यामु। तस्याः मनसः किञ्चािदपि खेदनं न जनयति स्म सः।
नन्दिनीदेव्याः प्रियानुजः तया सह एव आगतः आसीत्‌। तस्य
नाम नागसेनः। सः अग्रजाया प्रीतिं सम्पाद्य, राज्यपालनविषये स्वेच्छया
किमपि किमपि कारयति स्म। वस्तुतः सः विलासजीवनम्‌ इच्छति।
अतः सः कृषिकेभ्यः वणिजेभ्यः च अन्याय्येन धनं स्वीकरोति। यः
कोऽपि तस्य विरोधं प्रकटयति चेत्‌ ‘राज्ञः अनुमत्यनुगुणमेव व्यवहरन्‌
अस्मि अहम्‌’ इति दर्पेण वदति स्म सः।
तस्य एतादृशान्‌ अक्रमव्यवहारान्‌ दृष्ट‰ा प्रजाप्रमुखाः,
राजोद्योगिनः बहुवारं राज्ञः समीपे उक्तवन्तः। तथापि राजा ‘पत्न्या
प्रियानुजं श्यालं किमपि वदामि चेत्‌ पत्न्याः मनसः खेदः भवति’ इसित
मौनं तिष्ठपि स्म।
एकस्मिन्‌ दिने जयमल्लनायकः युवकः स्वसमीपे विद्यमानं
अश्वद्वयं ‘विक्रयणं करणीयम्‌’ इति राजधानीम्‌ आनीतवान्‌। विपण्यां
गच्छन्‌ नागसेनः तम्‌ अश्वद्वं दृष्ट‰ा युवकस्य समीपम्‌ आगतवान्‌।
एषः अश्वं क्रेतुम्‌ आगतवान्‌ इति मत्वा युवकः तस्य मूल्यं
वक्तुम्‌ उद्युक्तः। तत्क्षणमेव नागसेनः तं निवार्य ‘‘यदा विपणिं
आगच्छन्ति तदा प्रथमं शुल्करूपेण पञ्चाविंशति रजतनाणकानि
दातव्यानि। एषः नियमः । अतः रजनतनाणकानि ददातु अथवा एकम्‌
अश्वं त्यजत्‌’’ इति दर्पेण उक्तवान्‌।
तस्य कथनेन युवकः आश्चर्यचकितः। ‘‘एवात्पर्यन्तम्‌ अपि
विक्रयणम्‌ एव न अभवत्‌। शुल्कं दातव्यम्‌ इत्यस्य कः अर्थः? कुत्र
अस्ति नियमः ?’’ इति कोपेन पृष्टवान्‌ सः।
एतत्‌ वचनं श्रुत्वा कोपाविष्टः नागसेनः ‘‘भोः , अहं कः इति
ज्ञातवान्‌ वा? माम्‌ एव प्रतिवदति वा?’’ इति दर्वचनैः निन्दन्‌ युवकस्य
कपोलं ताडितवान्‌ ।
तस्य वचनेन युवकः अपि कोपनिष्टः अभवत्‌। कोपतः खड्‌गं बहिः
आकृष्टवान्‌ सः। नागसेनः अपि खड्‌गम्‌ आकृष्य तस्य उपरि आक्रमणं
कृतवान्‌। किञ्चाित्कालपर्यन्तम्‌ उभौ अपि युद्द कृतवन्तौ। तदनन्तरं
किञ्चाित्‌ व्रणितः नागसेनः ततदः पलायनं कृतवान्‌।
सः साक्षात्‌ लीलाधारमहाराजस्य समीपं गतवान्‌। राज्ञी नन्दिनी
मन्त्री मकरन्दश्च तत्रैअव आस्ताम्‌ ।
नागसेनः महाराजम्‌ उक्तवान्‌  ‘भोः पश्यतु, ग्रामतः आगतः
कश्चित्‌ उद्धत अश्ववणिक्‌ ताडनेन मां क्षतयुक्तं कृतवान्‌। इदानीं विपण्याम्‌
अस्ति। शीघ्रातिशीघ्रं सः कठोरतया दण्डनीयः’’ इति।
राजा यदा भटान्‌ आह्वातम्‌ उद्युक्तः तदा मन्त्री ‘‘प्रभो कठोरदण्डनं
तु अस्ति एव। प्रथमं तं वणिजं तत्रत्यान्‌ साक्षिणं च आनाययामः। तदा
न्यायविचारणं सुलभं भवति’’ इति उक्तवान्‌।
तदा राज्ञी नन्दिनी ‘‘राजबन्धोः उपरि आग्रमणं कुर्वतः सामान्यस्य
वणिजः कियान्‌ गर्वः स्वात्‌? विचारणीयं किमस्ति अत्र? इदानीमेव तम्‌
आनाय्य मरणदण्डनं ददातु इति आज्ञां दत्वा साक्षात्‌ ततः गतवती।
राजा भटान्‌ दृष्टवान्‌। ते तत्क्षणमेव विपणिं गत्वा जयमल्लनामकं
युवकं गृहीत्वा महाराजसमीपम्‌ आनीवन्तः।

No Comments to “उन्नतन्यायालयः”

add a comment.

Leave a Reply