सर्वेभ्यः सन्मतिं देहि भगवन्‌

‘‘सब को सन्मति दे भगवान्‌’’ इति गान्धीमहात्मनः प्रार्थना
भारतीयानां मनस्सु अद्यापि नरीनर्ति। नास्त्येव काचित्‌ प्रार्थना राष्ट ́पितुः
प्रयाचनामतिशयाना। सः भगवन्तं स्वार्थाय वित्तं हेम वा न याचते। किन्तु
हिंसाकौर्याशान्तीनां पूर्णविरामाय सर्वेभ्यः सन्मतिं देहीति प्रार्थयते। यदा
यान्त्यापदस्तदैव साधारणो जनो भगवन्तं स्मरति, पूजाकर्मणि प्रवर्तते।
किन्तु भगवान्‌ नयनगोचरो भूत्वा अस्मत्पुरतो नैव तिष्ठति, सर्वेषां
प्रयाचितं न हि ददाति। तदेव सुष्ठूक्तम्‌
‘‘न देवा दण्डमादाय रक्षन्ति पशुपालवत्‌ ।
यं तु रक्षितुमिच्छन्ति सद्‌बुद्ध्या योजयन्ति तम्‌।।’’
देवाः पशुपाला इव हस्तेन दण्डं गृहीत्वा कमपि न रक्षन्ति। यं तु रिरक्षन्ति
तं सद्‌बुद्धियुतं कुर्वन्ति। ‘‘हे भगवान्‌! त्वमेवात्य मां पाहि’’ इत्यप्राच्य
‘‘सन्मतिं मे देहि’’ इति प्राथ्यते चेत्‌ तर्हि तत्र वरीवर्ति महदौचित्यम्‌।
तत्रापि वसुधां कुटुम्बकमिव पश्यन्ती गान्धीदृष्टिः ‘‘सर्वेभ्यः सन्मतिं
देहि’’ इति प्रार्थयमाना सर्वाहिते रिरंसते। सन्मतिरियं जीवितुं
जीवयितुञ्चाास्मान्‌ प्रेरयतिः शान्त्यहिंसयोः सन्देशं सर्वान्‌ प्रापयति, तयोः
दीपकं प्रज्वलयति। जिजीविषयां ‘‘जीवानि, जीवयानि’’ इति
भावनाद्वयस्यान्तर्भावोविज्ञेयः ‘‘विजीविषेच्छतं समाः’’ इत्याशीरपि
अर्थवत्तां द्योतयति।
हनूनामकः कविः
(No man is an island)
(न कोऽप्यत्र
द्वीपोऽस्ति अथवा न कश्चिन्मनुष्यो द्वीपोऽस्ति) इति कवितायां सर्वेषां
जीवितानि कथमन्योन्याश्रितानि; कथं सन्ति परस्परं सम्बद्धानीति
उपफदयति गीतादृष्ट्या आत्मनो बन्धुरात्मैव। बाह्यः शत्रुरस्तीति चेत्‌
सोऽपि आत्मप्रयुक्त एवेत्युच्यते। वस्तुतः वैरञ्चाप्रपञ्चोऽस्मि स्वतन्त्रो नाम
कोऽपि नास्ति। सर्वे सर्ववंशवदाः एव। आत्मवत्‌ सर्वभूतेषु यः पश्यति
तस्य स्वपीडैव भवति प्रातिवेश्मकानां पीडापि। ‘‘सह नौ भुनक्तु’’
इत्यास्माको दिदृक्षुणा गान्धीमहात्मना ‘‘सर्वेभ्यः सन्मतिं देहि भगवान्‌’’
इति प्रार्थ्यते चेदेष धर्म। सनातनः।

No Comments to “सर्वेभ्यः सन्मतिं देहि भगवन्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.