विजया

विजयायाः मातापितरौ अतीव सन्तुष्टौ आस्ताम्‌  तां परिणेतुं माधवः अङ्गीकारं दत्तवान्‌ इत्यतः। सुतायाः विवाहः सम्पत्स्यते, सा सुखेन पत्या सह नूतनं कुटुम्बम्‌ आरम्भयिष्यति इति तयोः हर्षः आसीत्‌। विजयायाः मानसं तु द्वेधा चिन्तयति स्म। सा नगरे कस्याञ्चाित्‌ पाठशालायाम्‌ अध्यापिका। परिणयात्‌ पूर्वम्‌ एव उद्योगं त्यक्तुं न इच्छति स्म। ‘स्त्री वा, पुमान्‌ वा व्यक्तेः स्वावलम्बनं साधु’ इति तस्याः विचारसरणिः। किन्तु भावी पतिः नगरान्तरे वसति। ‘पत्नी गृहे स्थित्वा सेवां करोतु। न तया धनम्‌ अर्जनीयम्‌। वेतनं लभमाना स्त्री पत्युः विधेया न भवति’ इति तस्य निश्चयः। पिता विजयाम्‌ उक्तवान्‌ ‘‘पुत्रि, गृहे भवती एका एव कन्या नास्ति। भवत्याः द्वै सोदर्यौ स्तः। अहं वरान्वेषणं कृत्वा कृत्वा श्रान्तः। मयि करुणया विवाहाय अङ्गीकारं ददातु। मम कष्टं किञ्चाित्‌ विचारयतु’’ इति । माता उक्तवती ‘‘विजये भावी जामाता यत्‌ वदति , तद्‌ युक्तम्‌ एव। स्त्रियः गृहे स्थित्वा पाककार्यं कुर्युः। शिशूनां पालनं कुर्युः। उभौ दम्पती उद्योगाय गच्छतः चेत्‌ गृहं कथं सुखमयं स्यात्‌? अङ्गीकरोतु’’ इति।

No Comments to “विजया”

add a comment.

Leave a Reply

You must be logged in to post a comment.