उग्रान्‌ उपरि पाकिस्थानआफघानिस्थानयोः संयुक्तसेनाक्रमणम्‌

इस्लामबाद्‌पेशावरनगरे उग्रात तायिनः योधशालां गत्वा तत्रस्थ छात्रान्‌ शिक्षकान्‌ गुळिकास्त्र प्रक्षेपणैः आत्मस्फोटनेन च नाशितवन्तः एतान्‌ नाशयितुं पाकिसस्थान आफघानिस्तानसेना धिकारिणः पअतिज्ञातवन्तः। पेशावराक्रमणस्य मूलकारणं मुल्लफजुल्ला। अयं आफ्‌घानि स्थानदेशे निलीनोऽस्ति वार्ता। तं देशात्‌ निष्कासयेत्‌ इति पाकिस्थानदेशस्य शासनारूढ मुख्याः आफ्‌घानिस्थानदेश शासनारूढमुख्यान्‌ विज्ञापितवन्तः। आफघानिस्थानसेनामुख्यैः सह चर्चितुं पाकिस्थानदेशस्य सेना मुख्यः जनरल्‌ रहोल्‌ आफ्‌घानि स्थानदेशं जगाम। आफ्‌घानिस्थान देशे निलीनान्‌ उग्राततायिनः दमयितुं उभयदेशसेनायोधाः कटि बद्धा भवेयुः इति पाकिस्थानदेश सेनामुख्याः पाक्‌ प्रधानी च प्रार्थयामासतुः। उग्राततायिनः समूलं वयं नाशयामः इति पाकिस्थान प्रधानमन्त्री प्रतिज्ञातवान्‌। पेशावरस्य सेना शालादृश्यं तु शोपदायितुम्‌ अवर्तत। तत्र तत्र भूमौ रक्तं मेदुरम्‌। पुस्तकानि अस्तव्यस्तानि पतितानि। वस्त्राणि खण्डशः खण्डितानि। वातायनकाचाः कणकणशः चूर्णाः। पादरक्षाः अस्तव्यस्ताः खण्डशः पतिताः। पेशावरसेनाशालायं दृष्टं दृश्यमेतत्‌। उग्राततायिनः अल्पवयोछात्रान्‌ श्रेण्यां स्थापयित्वा अतिसमीपेन तानुपरि गुळिकास्त्राणिः प्रायञ्जत। शालायाः प्रांशुपालायाः तहिरा खाजिन्याः पार्थिवशरीरं मङ्गळवारे भग्नभवनात्‌ बहिः आनीतम्‌। गुळिकास्त्रप्रयोगशब्दं श्रुत्वा सा शौचालयं गत्वा द्वारं पिहितवती। किन्तुं वधोत्यताः उग्राः ग्रेनेड्‌ स्फोटकास्त्रं स्फोटयित्वा तां जघ्नुः। शालायाः सभाङ्गणे एकः कार्यक्रमः प्रचलन्नवर्तत। अतः तत्र शताधिकाः विद्यार्थिनः संमिलिताः। उग्राः तदङ्गणं प्रविश्य यथेच्छं छात्रानुपरि गुळिकास्त्राणि प्रक्षेपयामासुः। एकस्मिन्नेव स्थले शताधिकाः छात्राः पश्यत एव मृताः। उग्राः अतिसमीपेन छात्राणां शिरांसि उपर्येव गुळिकास्त्राणि चिक्षिपुः इति क्षतैः ज्ञायते। उग्राततायिभिः घन्तां छात्राणां मातरः पितरः पोषकाश्च दारुणतया क्रन्दन्तः आसन्‌। तद्‌दृश्यं तु अतीव मनोपीडकमवर्तत।

No Comments to “उग्रान्‌ उपरि पाकिस्थानआफघानिस्थानयोः संयुक्तसेनाक्रमणम्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.