विदेशेषु अक्रमधननिक्षेपणे भारताय तृतीयं स्थानम्‌

नवदिल्लीभारतदेशात्‌ बहिर्गत्वा
अन्यदेशान्‌ गतवन्तः अनेके
भारतीयाः तथैव भारतदेशे एव
स्थित्वा अन्यदेशकोशागारेषु
अक्रमैः सम्पादितानि धनानि
निक्षिप्तवन्तः। न केवलं भारतीया
एव। अन्यदेशीया अपि अन्यान्य
देशकोशागारेषु धनानि रहसि
निक्षिप्तवन्तः। एवमक्रमेणधननिक्षेप
कर्मसु भारताय तृतीयस्थानामस्ति।
२०१२वर्षे भारतदेशात्‌ बहिः
अन्यदेशकोशागारेषु रहसिधनं
निक्षेप्तुं माकिं ६ लक्षकोटिप्रमाणक
मक्रमधनं प्रेषितमस्ति इति
वाषिङ्गटन्‌ मूलयाः अन्ताराष्टि ́यधन
संशोधन संस्थायाः वार्तैका वदति।
२०१२ वर्षे माकिं ९४.०६
शतकोटि डालर्‌ प्रमाणकं अक्रम
सम्पादितं धनं विदेशेषु निक्षिप्तमस्ति
२००३ वर्षतः २०१२ वर्षपर्यन्तं
माकिं २८लक्षकोटिसंख्याप्रमाणकं
धनं भारतदेशात्‌ बहिर्गतमस्ति इति
धनसंशोधनसंस्था वार्तया
ज्ञातमस्ति।

No Comments to “विदेशेषु अक्रमधननिक्षेपणे भारताय तृतीयं स्थानम्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.