औषधप्रयोगपरीक्षाः

नूतनस्यौषधस्यान्वेषणे कृते, शीघ्रमेव तस्य रोगिषु प्रयोगो न सम्भवति। आदौ मर्कटेषु तस्य प्रयोगः क्रियते। तत्र कोऽपि अपायो न भवतीति यदा सिद्धं भवति, तदा मानवरूपेषु प्रयोगपशुषु तस्य प्रयोगः क्रियते। यज्ञपशुवत्‌ स्वं कश्चित्प्रयोगविषयीकर्तुं सिद्धो भवति। तस्यौषधस्य परिणामः कदाचित्‌ साधुर्भवति। यज्ञपशोः पुरुषस्य कापि हानिर्न भवति। तेन किञ्चािदधनमपि लभ्यते। किन्तु सदा सुपरिणाम एव भवतीति वक्तुं न शक्यते। दुष्परिणामोऽपि क्वचित्सम्भवति। तदा यज्ञपशूभूतो मानवः केनापि नूतनेन रोगेण बाध्यते, अथवा दुर्दैवान्म्रियते। कष्टे सम्प्राप्ते न कोऽपि तस्य साहाय्यं विदधाति। मृतस्य कुटुम्बं निराधारं भवति। औषधसंस्था मौनम्‌ आश्रयति । एषा न काल्पनिकी कथा । गते वर्षद्वये भारतवर्षे सप्तत्यधिकशतत्रयसंख्या (३७०) जनाः औषधप्रयोगपशवो भूत्वा मृताः। तत्र केवलं एकविंशतौ प्रकरणेषु मृतानां कुटुम्बेभ्यः परिहारो दत्तः। अन्ये तु कारणान्तरेण मृताः इत्युक्त्वा औषधसंस्थाः स्वहस्तान्‌ क्षालितवन्तः। निष्करुणोऽयं खलु प्रपञ्चाः। मानवकुलहिताय स्वप्राणान्‌ अर्पितवद्‌भ्यस्तत्‌ कार्तज्ञ्‌यं न सूचयति।

No Comments to “औषधप्रयोगपरीक्षाः”

add a comment.

Leave a Reply

You must be logged in to post a comment.