लघुकथा – सामान्यानां उपयोगाय एव

विज्ञानी एडिसनस्य नाम वयं सर्वे जानीमः एव । सः कदाचित्‌ चिन्तितवान्‌ ‘‘ मया मतदानपञ्जीकरणयन्त्रं निर्मातव्यम्‌’’ इति । निरन्तर चिन्तनेन सः तादृशस्य यन्त्रस्य निर्माणे समर्थः जातः एव। यन्त्रस्य स्वाम्यम्‌ अपि सम्पादितं तेन । ‘‘एतस्मात्‌ मया प्रभूतं यशः सम्पाद्येत ’’ इति अभावयत्‌ सः । राष्ट ́ाध्यक्षाय तत्‌ यन्त्रं दर्शयितुं सः वाषिङ्गटन्‌ नगरं गतवान्‌। संसदः सभाध्यक्षः तेन दृष्टः। स्वस्य यन्त्रस्य वैशिष्ट्य्‌ं कार्यनिर्वहण सामर्थ्यं च सः विवृतवान्‌ अध्यक्षस्य पुरतः। ‘‘एतस्य उपयोगतः मतदान विलम्बदोषः दूरीकर्तुं शक्यः । एकस्य क्षणस्य विलम्बं अपि एतत्‌ यन्त्रं न सहते । मतदाने एकोऽपि दोषः न भवति एतस्य उपयोगतः’’ इति अवदत्‌ सः । सर्वम्‌ अपि सश्रद्धं श्रुत्वा प्रयत्नं प्रशंसन्‌ राष्ट ́ाध्यक्षः ‘‘यन्त्रमिदं संसद्भवने यदि योज्येत तर्हि मतदाने शीघ्रता भवेत्‌ । किन्तु एतत्‌ यन्त्रं अत्र प्रयोजनाय न भवेत्‌ । यतः राजनीतिपुरुषाः विलम्बं एव इच्छन्ति । चर्चानिर्वहणादि निमित्तं कालविलम्बः आवश्यकः एव भवति’’ इति उक्त्वा यन्त्रस्वीकारं निराकृतवान्‌ । एतस्य श्रवणात्‌ एडिसनः विषण्णवदनः जातः। ‘गुणः अपि अत्र दोषाय जातः’ इति चिन्तयन्‌ सः निर्णीतवान्‌  ‘‘इतः परं मया उच्चस्तरीयेभ्यः किमपि न करणीयम्‌। यः यः आविष्कारः क्रियेत सः सामान्यानां जनानां निमित्तं एव स्यात्‌’’ इति । अग्रे तेनैव एडिसन्‌ महोदयेन विद्युद्दीपस्य आविष्कारः कृतः।

No Comments to “लघुकथा – सामान्यानां उपयोगाय एव”

add a comment.

Leave a Reply

You must be logged in to post a comment.