गणनायकस्तुतिः

सच्चिदानन्द रूपञ्चापाशाङ्‌कुधरंपरम्‌ ।
पीताम्बरधरं तं च वन्देऽहं गणनायकम्‌ ।।
कल्पद्रुमसमंदेवं कर्णकुण्डल धारिणम्‌ ।
कलारूपं च तं देवं वन्देऽहं गणनायकम्‌ ।।
गन्धोदकं यथापूतं तथैवास्य पदोदकम्‌ ।
तस्मादपि कथातस्य वन्देऽहं गणनायकम्‌ ।।
यदा स मुदमाप्नोति सदा नृत्यति तोषितुं ।
सद्गुणैस्संयुतं तं च वन्देऽहं गणनायकम्‌ ।।
मल्लिकार्जुन पुत्रोऽसौ सुलोचनयुतोयुवा ।
सौम्यशीलं दयावन्तं वन्देऽहं गणनायकम्‌ ।।
सुन्दरं मुकुटं धृत्वा सौन्दर्यानन्द दायकम्‌ ।
नादानन्द स्वरूपं तं वन्देऽहं गणनायकम्‌ ।।
स्कन्दाग्रजं च पूतं च नागयज्ञोपवींतिनम्‌
सप्तर्षिपूजितं एनं वन्देऽहं गणनायकम्‌ ।।

 

— विद्वान्‌ गुरुमल्लदेवरु, मैसूरु

No Comments to “गणनायकस्तुतिः”

add a comment.

Leave a Reply

You must be logged in to post a comment.