भारतदेशस्य मुसल्मानक्रैस्तजनाः प्राक्‌ हिन्दवः

अहमदाबाद्‌ – गुजरात्‌राज्यस्य भावनगरे विश्वहिन्दूपरिषदः स्वर्ण महोत्सवस्य एकस्मिन्‌ कार्यक्रमे परिषदः कार्यकारिणीसमितेरध्यक्षः प्रवीण्‌तोगाडिया तत्रस्थान्‌ जनान्‌ उद्दिश्य अभिभाषमाणः भारतदेशे स्थिताः बहवः मुसल्मानजनाः क्रैस्त जनाश्च प्राक्‌ हिन्दवः एव आसन्‌। इतिहाससाक्ष्यानुसारात्‌ मोगल्‌ राजानां समाक्रमणेन तैः प्रदत्त हिंसाभिः तजनैश्च कष्टेश्च भीताः बहवः हिन्दवः मुसल्मानधर्मं स्वीचक्रुः। परमधुना तादृशी परिस्थितिर्न। एवमेव क्रैस्तमतधर्म प्रचारकाः अपि अनेकान्‌ हिन्दू जनान्‌ क्रस्तधर्मीयान्‌ मतान्तर कार्येण परिणमितवन्तः। अतः प्राक्तनमतान्तरितहिन्दूजनान्‌ स्व मातृधर्माय पुनर्मतान्तरद्वारा समागन्तुम्‌ हिन्दूधर्मजाकरण समितिजनाः क्रियाशीलाश्च वर्तन्ते। तत्र को दोषः इति अवोचत्‌। कथनान्येतानि अधुना प्रक्षुब्ध परिस्थितिं देशे उत्थापयामासुः। मतीयसङ्घर्षणाभ्यः एतानि वचनानि कारणान्यभूवन्‌।

2 Comments to “भारतदेशस्य मुसल्मानक्रैस्तजनाः प्राक्‌ हिन्दवः”

  1. मुकेश कुमार says:

    यह मुसल्मानो के खिलाफ है , बहुत बेकार हैै

Leave a Reply

You must be logged in to post a comment.