हंससन्देशः – ४९

ईशादस्त्राण्यधिगतवतां क्षत्रियाणां प्रभावात्‌ काराऽऽवाससस्मरणचकितैस्सिक्तसस्यांपयोदैः।

पश्यन्यायाः परमलकया स्पर्धमानैरजस्रं पुण्यावासैः पुरजनपदैर्मण्डितान्पाण्ड्यदेशान्‌ ।।

रामचन्द्रः स्वप्रियायै सन्देशनयनकर्मणि विलम्बः नैव भूयादितीव पाण्ड्यदेशे द्रष्टव्यप्रदेशान्‌ संक्षेपेण प्रर्यचाययन्‌ ‘‘शीघ्रं यायाः’’ इति हंसं सूचयति। ‘‘हे ! राजहंस ! पाण्ड्यदेशे महाराजाः सर्वे पार्वतीजानेः भक्ता आसन्‌। ते क्षत्रियाः तपःकरणेन ईश्वरं तोषयित्वा, तेन तुष्टेन हरेण प्रदत्तसर्वास्त्रसम्पदः। तेषु आग्नेयपाशुपतवारुणादिभिः अस्त्रैः शोभितेषु पयोदा अपि भीत्या काले काले वर्षति स्म। अन्यथा स्वयं बलिष्ठाः राजानः ईश्वरस्य प्रसादेन च संयुताः प्रगृह्णन्ति, कारागृहेषु च निक्षिपन्ति इति भीतिः तेषां राजधान्यः कुबेरस्य धानाधिपतेः राजधान्या अलकानगर्या स्वर्धमाना इव धनधान्यादिभिरशोभन्त। यथा राजा तथा प्रजा इति, पुरजनाश्च सर्वदा षट्‌कर्मनिरता आसन्‌। सर्वत्र यज्ञदानतपसां तथाध्ययनाध्यापनादिसत्कर्मणां वार्ता एव श्रूयते। न केवलं पुरनिवासिनः ग्रामेयका अपि पुण्यकर्मनिरताः कापट्यादि गुणानभिज्ञाः अतिथ्यभ्यागतादीनां पूजादिकर्मसु निष्णाताः संदृश्यन्ते स्म। तथाविधानां पाण्डूनां राज्ञां शासने प्रवृद्धियुतान्‌ देशान्‌ विलोकयन्‌, तत्रत्यान्‌ तुष्टान्‌ पुष्टान्‌ जनान्‌ च संपश्यन्‌ पुरो गच्छेः’’ इति। कविः श्री वेङ्कटनाथः पाण्ड्यान्‌ राज्ञः स्वेषां परक्रमैः मेघानामपि भयदानुक्त्वा तेषां भगवति भक्तिं, तस्य देशस्य सस्यधनसमृद्धिं, पुरजनानां ग्रामस्थानां च कल्याणगुणं वर्णयन्‌, तादृशगुणविशेषाणां कथनेने हंसस्य तत्र चिरकालावस्थानं रामचन्द्रः नापेक्षते इति मनसिकृत्य यायाः इति पदेन सूचयति। अपि च रामचन्द्रः स्वयमपि तथाविधान्‌ कोसलान्‌ पितुर्निदेशे स्थित्वा यथा व्यामोहं विना अत्यजत्‌, तथैव हंसोऽपि सन्तोषस्यानु भवात्‌ निदेशपालनं मुख्यमिति विजानीयात्‌ इति प्रकारान्तरेण स्मारयति।

No Comments to “हंससन्देशः – ४९”

add a comment.

Leave a Reply