परमाण्विन्धनअनिलोत्पादनादिकार्येषु मिथः सहकार:

नवदिल्ली रष्यादेशस्य अध्यक्षः व्लादिमापुटिन्‌ भारतदेशं समागतवान्‌। सः नवदेहल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना सार्धं अनेकान्‌ विषयान्‌ चर्चितवान्‌। भारतरष्यादेशयोः १५ वार्षिक सभा गुरुवासरे नवदेहल्यां प्राचलत्‌। उभयदेशयोः रक्षणम्‌ इन्धनविनिमयः तैल नैसर्गिकानिलक्षेत्रेषु वाणिज्य व्यवहाराः इत्यादयो विषयोः उभयनेतृसंलापे चर्चापथमारूढाः। एतेषु वलयेषु सप्तविषयेषु मिथाङ्गीकारपत्रे हस्ताङ्कने अकुरुताम्‌ उभावपि। १३ इतरान्‌ अङ्गीकारविषयान्‌ ऊरीकृत्य च हस्ताङ्कने चक्रतुः भारतदेशस्य मित्रराष्ट ́ं रष्याराष्ट ́म्‌। रष्यादेशस्य नैसर्गिकानिल स्वाभाविकतैल संस्कारणादियोजनासु भारतदेशस्य सहकारः वर्तते। सेनायां उपयोक्तुं नागरिककार्योद्देशाय च उपयोक्तुं रष्यादेशे समुत्पन्नान्‌ अत्याधुनिक हेलिकाप्टर्‌ विमानानां अवयव पदार्थान्‌ रक्षणोपकरणानि च विक्रीय भारतदेशं समानेतुं च उभावपि ऊरीकृतवन्तौ। एवमेव अत्याधुनिहेलिकाप्टर्‌ उपकरणानि रक्षणोपकरणानि च भारतदेशः स्वस्थले एव समुत्पादयति। अस्मै कार्याय रष्यानेता सहकारं संमतिं च प्रदेयात्‌ इति प्रधानमन्त्री नरेन्द्र मोदी उवाच। पुटिन्‌ प्रस्तावनामिमां समङ्गीचकार। सभां पबरिसमाप्य उभावपि नेतारौ संयुक्तवार्तागोष्ठ्यां वार्ताहरान्‌ उद्दिश्य फलश्रुतिं कथितवन्तौ। नरेन्द्रमोदी अभिभाषमाणः रष्यादेशः सर्वदा अस्माकं मित्रदेशः। अस्माकं सर्व कार्येषु रष्यादेशस्य सहकाराः वर्तन्त एव इति भावयामः वयम्‌। भारतदेशस्य बलवर्धनाय सर्वदा रष्या देशनेतारः सर्वदा सहकारान्‌ प्रदास्यन्ति इत्यवोचत्‌। रष्यादेशस्य अध्यक्षः ब्लादिमर्‌ पुटिन्‌ भाषमाणः अवोचत्‌ भारतदेशः रष्यादेशयोः सम्बन्धः बहुदशकेभ्यः एव वर्तते। उभयदेशयोः मैत्री प्राचीनतमास्ति। अनेकेषु देशरक्षण उत्पादन अभिवर्धनक्षेत्रेषु उभयोर्देशयोः नेतारः एकीभूय कार्याणि कर्तुं सततम्‌ अवकाशाः विद्यन्ते। उभयदेशयोः अभिवृद्धिकरणकविषयेषु आवयोः मिथः चर्चा आशाज्योतिरभवत्‌। वयं सर्वदा स्नेहेन शान्त्या सहकारमनो भाषनया च वर्तामहे। भारतरष्या देशयोः मैत्री चिरं विलसतीति।

Tags: , ,

No Comments to “परमाण्विन्धनअनिलोत्पादनादिकार्येषु मिथः सहकार:”

add a comment.

Leave a Reply

You must be logged in to post a comment.