तृणमूलकांग्रेस्‌पक्षस्य सचिवः बन्धितः

कोल्कत्ताशारदाचिट्‌फण्ड्‌ कुकृत्ये भागीति आरोपकारणात्‌ कोल्कत्ता नगरे केन्द्रीयान्वेषणदलस्य आरक्षकाः तृणमूलकांग्रेस्‌पक्षस्य पश्चिमबंगालराज्यस्य यानसचिवं मदनमिश्रं बबन्धुः। केन्द्रीयान्वेषण दलारक्षकैः अधुना एतेन सह तृणमूल कांग्रेस्‌पक्षस्य त्रयः सचिवाः बन्धिताः। पुरा तृणमूलकांग्रेस्‌पक्षस्य भूतपूर्वः लोकसभासदस्यः कुनाल्‌ घोष्‌ राज्यसभासदस्यः सृञ्जय्‌बोस्‌ च बन्धितावास्तान्‌। अपराधरहस्य तन्त्रकार्याचरणधनदुर्विनियोगान्‌ अयं सचिवः मदनमिश्रः चकार इति एतमुपरि केन्द्रीयान्वेषणदलाधि कारिणः कृत्वा पञ्चाहोराकालं यावत्‌ तं अधिकारिणः विवरणानि पप्रच्छुः। पश्चिमबङ्गालस्य मुख्यामात्या ममता ब्यानर्जी अस्य बन्धनं खण्डयित्वा भाजपवरिष्ठाः द्वेषराजकारणं कुर्वन्तस्सन्ति उक्तवती।

One Comment to “तृणमूलकांग्रेस्‌पक्षस्य सचिवः बन्धितः”

  1. FARHAN akhtar says:

    बहुत पुराना है यह समाचार

Leave a Reply

You must be logged in to post a comment.