पुनर्मतान्तरविषयमुपरि कोलाहलचर्चा

नवदिल्ली  लोकसभायां पुनर्मतान्तरकरणविषयमुपरि चर्चां कर्तुम्‌ अवकाशः प्रदेयः इति विपक्षसदस्याः विज्ञापितवन्तः। सभाध्यक्षिणीम्‌। परं सा अवकाशं नैव प्रादात्‌। एतेन क्रुद्धाः विपक्षसदस्याः कोलाहलं कुर्वन्तः सर्वकारं विरुद्‌ध्य घोषणाः चक्रुः। कांग्रेस्‌पक्षस्य नेता मल्लिकार्जुनखर्गे लोकसभायां पुनर्मतान्तरंविषयं प्रस्तोष्य पुनर्मतान्तरकरणविचारः गम्भीरतमो वर्तते। देशस्य एकतायै वैविध्याय च हानिर्भवति। अत प्रश्नोत्तरसमयं परित्यज्य इमं विषयमेव चर्चितुमावकाशः प्रदेयः इति पृष्टवान्‌। परं लोकसभाध्यक्षिणी अवकाशं नैव दत्तवती। अनेन कुपितः मल्लिकार्जुनखर्गे पुनर्मतान्तरकरण विचारं लोकसभायामेव कुर्यात्‌। मार्गमध्ये कर्तुं शक्यते वा। विषयगाम्भीर्यं भवान्‌ जानातु इत्यवोचत्‌। तदा संसदीयविषयं मा कुरुत यूयम्‌। विपक्षसदस्याः यदि सहकारान्‌ प्रदेयुः तदा मतान्तरनिषेधविधेयकं शासनारूढं करिष्याम इत्यभणत्‌। तदा इतरपक्षसदस्याः अपि मल्लिकार्जुनखर्गेण साकं स्थित्वा पुनर्मतान्तरकरणविचारमुपरि चर्चां कर्तुम्‌ अवकाशं प्रदेयादेव इति प्रबोधितवन्तः। हिन्दूमुस्लि ̈जनाः सोदराः इति विपक्षसदस्याः जुघुषुः। समाजवादिपक्षस्य नेता मुलायंसिंग्‌ पुनर्मतान्तरकरणकार्याणि देशे भाविनि हत्याकर्मणि भविष्यन्ति इति पूर्वसूचनाः प्रदास्यन्ति। एतादृश्यः घटनाः मतीयसौहार्दं नाशयन्ति इत्युवाच। भारतीयजनतापक्षस्य नेता विनय्‌ कटियार्‌ एतान्‌ सदस्यान्‌ उद्दिश्य अभिभाषमाणः ‘‘बुहुभ्यः वर्षेभ्यः पुनर्मतान्तरकारणकार्याणि देशे प्रचलन्ति सन्ति। बलात्कारेण हिन्दूजनान्‌ अन्यमतानि प्रति मतान्तरं कृत्वा अन्यधर्मीयान्‌ कृतवन्तः अनेके इतरधर्मीयाः जनाः। तान्‌ मतान्तरितहिन्दून्‌ वयं पुनर्मतान्तरान्‌ कृत्वा स्वधर्मं स्वागतीकुर्मः वयम्‌। येसुक्रिस्तस्य जन्मदिवसे अटल बिहारि वाजपेयि जन्मदिवसः डिसम्बर २५ दिनाङ्कः। तद्दिने वयं अलिगढनगरे पुनर्मतान्तरकरण कार्याणि कुर्मः। एतत्‌ पुनर्मतान्तर करणं न परमिदं स्वधर्मस्वागतीकरण मिति अवोचत्‌। उत्तरप्रदेशस्य मुख्य मन्त्री अखिलेश्‌ यादवः पुनर्मतान्तर करणकार्याणि ये कारितवन्तः तान्‌ विरुध्य न्यायालये अभियोगः पञ्जीक्रियते इत्यवादीत्‌।

No Comments to “पुनर्मतान्तरविषयमुपरि कोलाहलचर्चा”

add a comment.

Leave a Reply

You must be logged in to post a comment.