कदाचित्‌ सम्मतोऽप्यहम्‌

एकदा कलहे जाते गृहकार्ये
भयङ्करे ।
देवदत्तस्य पत्नी सा पतिमेवम्‌
उवाच यत्‌ ।।
केनाऽपि मद्विचारेण त्वं तु न
सम्मतः कथम्‌ ।
त्वं किं मां सर्वथा मूर्खां प्रमत्तां
चाऽपि मन्यसे?।।
तस्या आक्रोषशम्‌ आकर्ण्य
देवदत्तो विहस्य तु ।
भार्यां विनम्रभावेन तदैव
निजगाद य यत्‌ ।।
न हि भो ! पश्य नाऽस्त्येवम्‌
भाषणेऽपि तवाऽधुना ।
द्वितीयेनाऽस्ति वाक्येन सर्वथा
सम्मतिर्मम ।।

 

—  प्रशस्यमित्रशास्त्री, रायबरेली

No Comments to “कदाचित्‌ सम्मतोऽप्यहम्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.